| YouTube Channel

रम्भः (rambhaH)

 
Apte
English
रम्भः [rambhḥ], 1 Sounding, roaring
&c.
A support, prop.
A stick.
A bamboo.
Dust.
Wordnet
Sanskrit
Synonyms:
रम्भः, रम्भासुरः
noun
एकः दैत्यः।
"पुराणानाम् अनुसारं रम्भः महिषासुरस्य पिता आसीत्।"
Synonyms:
गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्
noun
अभिष्टनक्रिया।
"मेघानां गर्जनाभिः सह विद्युद्भिः सह वर्षा अवर्षत्। "
शब्दकल्पद्रुमः
Sanskrit
रम्भः,
पुं,
(रम्भते रागमूर्च्छनादिकमनेनेति ।रभि + कर्म्मणि घञ् ।) वेणुः (रम्मते उद्यम-शीलो भवति निरन्तरमुदरभरणायेति भावः ।रभि + अच् ।) वानरविशेषः इति मेदिनी ।भे,
महिषासुरपिता यथा, --श्रीऔर्व्व उवाच ।“आराधितो महादेवो रम्भेण सुरवैरिणा ।चिरेण सुप्रीतस्तपसा तस्य शङ्करः
अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् ।प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम्
एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ।अपुत्त्रोऽहं महादेव यदि ते मय्यनुग्रहः
मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ।एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः
भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव ।इत्युक्त्वा महादेवस्तत्रैवान्तरधीयत
रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः ।पथि गच्छन् रम्भोऽथ ददृशे महिषींशुभाम्
त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् ।स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः
दोर्भ्यां गृहीत्वा तदा चकार सुरतोत्सवम् ।तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा
दधार महिषी गर्भं तदाभून्महिषासुरः
”इति कालिकापुराणे ५९ अध्यायः
(असौ एव जन्मान्तरे रक्तबीजो जातः ।एतद्विवरणं यथा, देवीभागवते १७-४९ ।व्यास उवाच ।“दनोः पुत्त्रौ महाराज ! विख्यातौ क्षिति-मण्डले ।रम्भश्चैव करम्भश्च द्बावास्तां दानवोत्तमौ
तावपुत्त्रौ महाराज ! पुत्त्रार्थं तेपतुस्तपः ।बहून् वर्षगणान् कामं पुण्ये पञ्चनदे जले
करम्भस्तु जले मग्नश्चकार परमं तपः ।वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत
पञ्चाग्निसाधनासक्तः रम्भस्तु यदाभवत् ।ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ।वासवस्तु करम्भन्तं तदा जग्राह पादयोः
निजघान तं दुष्टं करम्भं वृत्रसूदनः ।भ्रातरं निहतं श्रुत्वा रम्भः कोपं परङ्गतः
स्वशीर्षं पावके होतुमैच्छच्छित्वा करेण ।केशपाशे गृहीत्वाशु वामेन क्रोधसंयुतः
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।छिनत्ति शीर्षं तत्तावद्बह्निना प्रतिबोधितः
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।आत्महत्यातिदुःसाध्या कथं त्वं कर्त्तुमुद्यतः
वरं वरय भद्रं ते यस्ते मनसि वर्त्तते ।मा म्रियस्व मृतेनाद्य किन्ते कार्य्यं भविष्यति
व्यास उवाच ।तच्छ्रुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।ततोऽब्रवीद्बचो रम्भस्त्यक्त्वा केशकलापकम्
यदि तुष्टोऽसि देवेश ! देहि मे वाञ्छितं वरम् ।त्रैलोक्यविजयी पुत्त्रः स्यान्नः परबलार्द्दनः
अजेयः सर्व्वथा स्याद्देवदामवमानवैः ।कामरूपी महावीर्य्यः सर्व्वलोकाभिवन्दितः
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।पुत्त्रस्तव महाभाग ! मरणाद्विरमाधुना
यस्यां चित्तं तु रम्भ ! त्वं प्रमदायां करिष्यसि ।व्यास उवाच ।तस्यां पुत्त्रो महाभाग ! भविष्यति बलाधिकः
इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः
यक्षैः परिवृतं स्थानं रमनीयं श्रियान्वितम् ।दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः
मत्तायां रूपपूर्णायां त्रिहायन्यां योषितम् ।सा समागाच्च तरसा कामयन्ती मुदान्विता
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।सा तु गभवती जाता महिषी तस्य वीर्य्यतः
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।महिषेभ्यश्च तां रक्षन् प्रियामनुमतां किल
कदाचित् महिषश्चान्यः कामार्त्तस्तामुपाद्रवत् ।स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत्
स्वरक्षार्थं समागम्य महिषं समताडयत् ।सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।भूमौ पपात तरसा ममार विमूर्च्छितः
मृते भर्त्तरि सा दीना भयार्त्ता विद्रुता भृशम् ।सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।कामयानस्तु तां कामी बलवीर्य्यमदोद्धतः
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।धावमानञ्च तं वीक्ष्य यक्षास्त्रातुं समाययुः
युद्धं समभवद्घोरं यक्षाणां हयारिणा ।शरेण ताडितस्तूर्णं पपात धरणीतले
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।चितायां रोपयामासुस्तस्य देहस्य शुद्धये
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम्
वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम्
महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः ।रम्भोऽप्यन्यद्बपुः कृत्वा निःसृतः पुत्त्रवत्सलः
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः
एवं महिषो जातो रक्तबीजश्च वीर्य्यवान् ।अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम !
”)
कृदन्तरूपमाला
Sanskrit
1 {@“रभ राभस्ये”@} 2 राभस्यम् = कार्योपक्रमः।
अयं प्रायेण आङ्पूर्वक एव प्रयुज्यते।
3 4 आरम्भकः-म्भिका, 5 रम्भकः-म्भिका, 6 रिप्सकः-प्सिका, रारभकः-भिका
7 आरब्धा-ब्ध्री, रम्भयिता-त्री, रिप्सिता-त्री, रारभिता-त्री
-- रम्भयन् न्ती, रम्भयिष्यन्-न्ती-ती
-- 8 आरभमाणः, 9 आरभमाणः, रम्भयमाणः, रिप्समानः, रारभ्यमाणः, रप्स्यमानः, रम्भयिष्यमाणः, रिप्सिष्यमाणः, रारभिष्यमाणः
सुरप्-सुरभ्-सुरभौ-सुरभः
-- -- आरब्धम्-ब्धः, रम्भितम्-तः, रिप्सितम्, रारभितम्-तः-तवान्
10 11 रम्भः-रम्भा, 12 साध्वारम्भी, रम्भः, रिप्सुः, 13 रारम्भः
आरब्धव्यम्, आरम्भयितव्यम्, रिप्सितव्यम्, रारभितव्यम्
आरम्भणीयम्, आरम्भणीयम्, रिप्सनीयम्, रारभणीयम्
14 आरभ्यम्, आरम्भ्यम्, रिप्स्यम्, रारभ्यम्
ईषद्रम्भः-दूरम्भः-सुरम्भः
-- -- -- आरभ्यमाणः, आरम्भ्यमाणः, रिप्स्यमानः, रारभ्यमाणः
आरम्भः, आरम्भः, रिप्सः, रारभः
आरब्धुम्, आरम्भयितुम्, रिप्सितुम्, रारभितुम्
रब्धिः, आरम्भणा, रिप्सा, रारभा
आरम्भणम्, आरम्भणम्, रिप्सनम्, रारभणम्
रब्ध्वा, रम्भयित्वा, रिप्सित्वा, रारभित्वा
आरभ्य, आरम्भ्य, आरिप्स्य, आरारभ्य
रम्भम् २, रब्ध्वा २, रम्भम् २, रम्भयित्वा २, रिप्सम् २, रिप्सित्वा २, रारभम्
रारभित्वा
15 इत्यसच्प्रत्यये रूपम्।
बाहुलकात्, ‘राभस्ये’ इति निर्देशाद्वा नुम् न।]] रभसः।
प्रासङ्गिक्यः
01
=>
(१३७८)
02
=>
(१-भ्वादिः-९७४। अक। अनि। आत्म।)
03
=>
[पृष्ठम्११०२+ २८]
04
=>
[[१। ‘रभेरशब्लिटोः’ (७-१-६३) इति, अजादिषु प्रत्ययेषु शब्लिड्वर्जं नुमागमः। एवमेव घञादिष्वपि ज्ञेयम्। “काशकृत्स्नधातुपाठीयकन्नडटीकायां रभकः रभः, रभमाणः, रभणीयम् इत्यादिप्रयोगेषु नुमोऽदर्शनात् वस्तुतः सानुषङ्गाः आरम्भः, आरम्भणम्… इत्येवमादयः प्रयोगाः रभधातोः, किं तर्हि? सानुषङ्गस्य रम्भधातोः…” इत्यादिकं क्षीरतरङ्गिणीटिप्पणे (पुटे १५१) सुदूरं विचारितम्। तत्र पाणिनीयधातुपाठकोशेषु कुत्रापि सानुषङ्गस्य रम्भधातोरुल्लेखाभावात् प्रमाणं मृग्यमिति बोध्यम्। ‘रेभृ शब्दे’ इति भौवा- दिकस्य धातोः दुर्गसम्मतं ‘रभि शब्दे’ इति पाठमाश्रित्य निर्वाहं केचित् कुर्वन्ति। तदपि दुर्गान्यैस्तत्पाठानादरात् प्रमाणमिति बोध्यम्।]]
05
=>
[[२। ण्यन्ते ण्वुलि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्तां परामपि वृद्धिं बाधित्वा, ‘रभेरशब्लिटोः’ (७-१-६३) इति नुम् नित्यत्वाद्भवति।]]
06
=>
[[३। सन्नन्ते, ‘सनि मीमाघुरभ--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽ- भ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘स्कोः--’ (८-२-२९) इति सलोपः। भकारस्य चर्त्वेन पकारः।]]
07
=>
[[४। तृजादिषु ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, जश्त्वे रूपमिति ज्ञेयम्।]]
08
=>
[[५। शानचि, ‘रभेरशब्लिटोः’ (७-१-६३) इत्युक्तत्वात् नुमागमो न। यस्तु परि- भाषेन्दुशेखरे ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः’ (परिभाषा १६) इत्यत्र, “…संज्ञाभूतानां प्रतिषेधम् आरभता वार्तिककृता…” इति वाक्ये, आत्मनेपदस्यास्य धातोः शत्रन्तप्रयोगः प्रयुक्तः, तु सम्पातायात इति तावता धातोरस्योभयपदित्वं कल्प्यम्। ‘अनुदात्तेत्त्वलक्षणमात्मनेपदम् अनित्यम्’ (परि। ९७) इति वचनात् आत्मनेवदस्यानित्यत्वात् ‘आरभता’ इति प्रयोगः सूपपन्न इति वाच्यम्। तस्याः परिभाषायाः भाष्याद्यनादृतत्वेनाप्रामाण्यस्य नागेशभट्टैरेव समर्थितत्वादित्यन्यत्र विस्तरः। ‘भोक्तुम् आरभमाणः’ इत्यत्र, ‘शकधृषज्ञाग्लाघटरभ--’ (३-४-६५) इत्यादिना धातुमात्रात् तुमुन्।]]
09
=>
[भोक्तुम्]
10
=>
[पृष्ठम्११०३+ २६]
11
=>
[[१। पचाद्यचि नुमि रम्भः। स्त्रियां टापि रम्भा = अप्सरोविशेषः, कदली च।]]
12
=>
[[२। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
13
=>
[[३। यङन्तात् पचाद्यचि, यङो लुकि नुमागमे रूपमेवम्।]]
14
=>
[[४। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः। हलन्तलक्षणण्यतोऽपवादः।]]
15
=>
[[५। ‘अत्यविचमितमिरभि--’ [द। उ। ९-४४]