| YouTube Channel

रमिता (ramitA)

 
शब्दकल्पद्रुमः
Sanskrit
रमिता, त्रि, (रम् + णिच् + क्त टाप् ।) रति-प्रापिता यथा, --“त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता ।मुररिपुणा रतिगुरुणा परिरमिता प्रमद-मिता
”इति छन्दोमञ्जरी
“व्रजयुवतिर्गोपबधूः मुररिपुणा श्रीकृष्णन परि-रमिता सती प्रमदं हर्षं इता गता ।किम्भूता त्वरितगतिः त्वरिता शीघ्रा गति-र्यस्याः सा तथा पुनः किम्भूता तरणिसुता-विपिनगता यमुनासम्बन्धिवनमुपागता किम्भू-तेन रतिगुरुणा रतौ शृङ्गारे गुरुणा उपा-ध्यायेन अयमभिप्रायः स्वयं रतिकुशलोनायिकाञ्च रतिमध्यापयति ।” इति तट्टीका