| YouTube Channel

रबि (rabi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रम्ब्
मूलधातुः:
रबि
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रम्बते
धातुप्रदीपः
Sanskrit
रबिँ रबि
मानकरूपान्तरम् - लबिँ
लबि
मानकरूपान्तरम् - अबिँ
अबि शब्दे
- रम्बते रम्बयते ररम्बे करम्बः ।।
क्षीरतरङ्गिणी
Sanskrit
रबिँ रबि
मानकरूपान्तरम् - लबिँ
लबि
मानकरूपान्तरम् - अबिँ
अबि शब्दे
- रम्बते के रम्बते-करम्बः स्वर्ण रत्नकरम्बितम्, कृञश्चिद् इत्यम्बज् वा लम्बते अम्बते अम्बा, मूशक्यम्बिभ्यः क्लः (तु0 उ0 4108) आम्ब्लम् 368-370
धातुवृत्तिः
Sanskrit
रबिँ रबि
मानकरूपान्तरम् - लबिँ
लबि
मानकरूपान्तरम् - अबिँ
अबि (अर्थः) शब्दे
( रम्बते ररम्बे रम्बिता रिरम्बिषते राराम्बयते रारम्बीति रारम्प्ति अरारन् हे इति रम्बतइति हे रम्बः लम्बतहत्यादि अम्बते आनम्बे अम्बिबिषते अम्बयति आम्बिबत् ) त्रीण्यम्बकानि चक्षूंषि अस्येति ( त्र्यम्बः ) त्रयाणां लोकानामम्बः पितेत्यागमविदः द्यौर्भृमिरापस्तिस्त्रोम्बा अस्य इति भारतम् शब्दा अकारोकाराः प्रतिपादका अस्यैवेति भट्टभास्करः एव सृष्टिस्थितिसंहारविषयास्तिस्रो वा शक्तयोऽस्येति ( अम्बरीषम् ) भ्राष्टमम्बरीषम्'' इति निपात्यते अम्बा हे अम्ब "अम्बार्थनद्योः इति ह्रस्वः सम्बुद्धौ 375
कृदन्तरूपमाला
Sanskrit
1 {@“रबि शब्दे”@} 2 रम्बकः-म्बिका, रम्बकः-म्बिका, रिरम्बिषकः-षिका, रारम्बकः-म्बिका
रम्बिता-त्री, रम्बयिता-त्री, रिरम्बिषिता-त्री, रारम्बिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककम्पतिवत् 3 ज्ञेयानि।
4 रम्बणः, 5 सुरम्बी, 6 हेरम्बः, 7 अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३७७)
02
=>
(१-भ्वादिः-३७६। अक। सेट्। आत्म।)
03
=>
(१६६)
04
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति, ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति वा युच् ताच्छीलिकः।]]
05
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये रूपमेवम्।]]
06
=>
[[३। हे इत्येवं रम्बते इति हेरम्बः = विनायकः। पचाद्यचि रूपमेवम्। ‘के रम्बते-- करम्बः। स्वर्णं रत्नकरम्बितम्, कृञश्च चित् (‘कृञश्च’ द। उ। ७-१७) इत्यम्बज् वा’ इति क्षीरतरङ्गिण्यामुक्तम्। “‘हः शङ्करे हरौ हंसे रणरोमाञ्च- वाजिषु’ इति नानार्थरत्नमाला। ‘हे उषसि रम्बते’ इति स्वामी।” इति अमरसुधा (१-३८)।]]
07
=>
[[B। ‘सकम्पहेरम्बसमानलम्बनाः…।’ धा। का। १-४९।]]