| YouTube Channel

रप (rapa)

 
Wilson
English
रप r. 1st cl. (रपयति) To speak, to say or tell.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रप्
मूलधातुः:
रप
धात्वर्थः:
व्यक्तायां वाचि
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रपति
धातुप्रदीपः
Sanskrit
रपँ रप
मानकरूपान्तरम् - लपँ
लप व्यक्तायां_वाचि
- रपति राप्यम् लपति लाप्यम् असुयु (3/1/136) इत्यादिना ण्यत् अदुपधाः पूर्वोक्ता यतं भजन्ते इमौ तु ण्यतमित्यर्थसाम्येऽपि जपिजल्पिभ्यां पृथगेतयोर्निर्देशः ।। 402, 403 ।।
शब्दकल्पद्रुमः
Sanskrit
रप, वदे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) रपति वदः कथनम् इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
रप व्यक्तवाक्ये
भ्वा०
प०
सक०
सेट् रपति अरापीत् अरपीत् रराप रेपतुः
क्षीरतरङ्गिणी
Sanskrit
रपँ रप
मानकरूपान्तरम् - लपँ
लप व्यक्तायां_वाचि
- रपति लपति आसूयुवपि (31126) इति ण्यत् अपलाप्यम् लपितम् लपनं मुखम् आलापः, अपलापः, प्रलापः 393, 394
धातुवृत्तिः
Sanskrit
रपँ रप
मानकरूपान्तरम् - लपँ
लप (अर्थः) व्यक्तायां_वाचि
( रपति लपति )इत्यादि जपिवत् (विलापयति पुत्रम् )इत्यत्र जल्पत्यादित्वात्प्रयोज्यस्य कर्मत्वम् ( अलीलपत् अललापत् ) काण्यादित्वाद् उपधाह्रस्वविकल्पः ( राप्यः लाप्यः ) "आसुयुवपिरपिलपित्रपि'' इति ण्यत् यतोऽपवादः अत एव जपतिना समानार्थत्वेपि पृथङ्निर्देशः ( रिपुः ) "रपेरिच्चोपधायाः'' इति उप्रत्यय उपधाया इकारः 399
कृदन्तरूपमाला
Sanskrit
1 {@“रप व्यक्तायां वाचि”@} 2 ‘--वचसि क्लैव्ये’ इति दशपाद्युणादिवृत्ति 3 पाठः।
रापकः-पिका, रापकः-पिका, रिरपिषकः-षिका, रारपकः-पिका
रपिता-त्री, रापयिता-त्री, रिरपिषिता-त्री, रारपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचपतिवत् 4 ज्ञेयानि।
5 राप्यम्, 6 इत्युक्तम्।]] रिपुः इमौ रूपौ विशेषेण भवतः इति ज्ञेयम्
प्रासङ्गिक्यः
01
=>
(१३७४)
02
=>
(१-भ्वादिः-४०१। अक। सेट्। पर।)
03
=>
(१-१११)
04
=>
(४९७)
05
=>
[[२। ‘आसुयुवपिरपि--’ (३-१-१२६) इति ण्यत्। यतोऽपवादः।]]
06
=>
[[३। ‘रपेरिच्चोपधायाः’ (द। उ। १-१११) इति कुप्रत्ययः, उपधायाः इच्च भवति। रिपुः = वैरी। अत्र द। उ। टिप्पन्याम् “श्वेतवनवासिना रपेर्हिं- सार्थत्वमाश्रित्य रिपुशब्दो निरुक्तः। तथाहि-- “रपति हिनस्ति इति रिपुः = शत्रुः। संज्ञाशब्देषु धातोरर्थान्तरवृत्तित्वमस्ति। तथाह्युक्तम्-- ‘धातो- स्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्।’ इति” [पृष्ठम् १४। १५।]