| YouTube Channel

रन्धं (randhaM)

 
शब्दकल्पद्रुमः
Sanskrit
रन्धं,
क्ली,
(रन्धयति हिनस्त्यनेनेति रध् + बाहु-लकात् रक् ।) दूषणम् (यथा, रघुः ।१२ ११ ।“रन्ध्रान्वेषणदक्षाणां द्बिषामामिषतां ययौ
”)छिद्रम् इति मेदिनी
(यथा, रघौ १५ ८२ ।“एवसुक्ते तया साध्व्या रन्ध्रात् सद्योभवाद्भुवः ।शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ
”मनुष्यशरीरस्थरन्ध्राणि यथा, --“नासानयनकर्णानां द्बे द्वे रन्ध्रे प्रकीर्त्तिते ।मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते ।दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
स्त्रीणान्त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः ।सूक्ष्मच्छिद्राणि चान्यानि मतानि त्वचि जन्मि-नाम्
”इति शार्ङ्गधरे पूर्व्वखण्डे पञ्चमेऽध्याये
योनिः यथा, महाभारते १२ २८२ ५३ ।“रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ।नेत्ररोगः कोकिलस्य ज्वरः प्रोक्तो महात्मना
”)