रन्ज (ranja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritरन्जँ रञ्ज रागे
- रजति । रजते । रज्यति अथवा रज्यते वस्त्रं स्वयमेव । रङ्क्ता । रागी । रागः । रङ्गः । रक्तः । रञ्जः । रञ्जकः । रक्त्वा । रङ्क्त्वा । रजकः । रजकी । रजनम् । रजनम् । रजनी ।। 1007 ।।
रन्जँ रन्ज रागे
- रज्यति रज्यते ररञ्ज ररञ्जे रक्तम् रङ्क्तुम् रङ्क्त्वा रक्त्वा रजति रजत इति भ्वादिपाठात् 61
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
SanskritHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritरन्जँ रन्ज रागे
- रञ्जेश्च (6426) इति शपि न लोपः रजते, रजति कुषिरजोः प्राजां श्यन् परस्मैपदं च (3190) रज्यति वस्त्रं स्वयमेव घञि च भावकरणयोः (6427) न लोपः रागः, अधिकरणे रङ्गः रञ्जेर्णौ मृगरमणे (6424 वा0) रजयति मृगान्, नेह रञ्जयति नटः रजनरजकरजःसु कित्त्वम् (तु0 6424 वा0) शिल्पिन् ष्वुन् नृतिखतिरञ्जिभ्यः (311145 सू0 वा0) रजकः महारजनं कुसुम्भम् गौरादौ (गण0 4141) रजनी जनीजृष्क्नसुरञ्जो ऽमन्ताश्च (1554) इति मित्संज्ञाशासनादन्यत्राप्याहुर्यथा-राजर्षिकल्पो रजयन् सम्पृच (32142) रागी पृषिरञ्जिभ्यां कित् (उ0 3111) इत्यतच् रजतम् 969
रन्जँ रन्ज रागे
- रज्यते, रज्यति रङ्क्ता भ्वादौ (1726) रजति तत्रैव ग्रहणान्युक्तानि स्वरितेत्त्वार्थं विकरणार्थं चेह पाठः, एवं शपः (धा0 सू0 459) 58
धातुवृत्तिः
Sanskritरन्जँ रञ्ज (अर्थः) रागे
( रजति ) "रञ्जेश्च'' इति शप्यनुनासिकलोपः ( रञ्ज ररञ्जतुः ररङ्थ ररञ्जिथ ( क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः ( रङ्क्ता रङ्क्ष्यति रजतु अरजत् रजेत् ) आशिषि रज्यात् "किदाशिषि''इति कित्त्वादनुनासिकलोपः ( अराङ्क्षीत् अराङ्क्ताम् अराङ्क्षुः रजते ररञ्जे ररञ्जिषे रङ्क्तासे रङ्क्ष्यते रजताम् अरजत रजेत रङ्क्षीष्ट अरङ्क्त अरङ्क्षाताम् रिरङ्क्षति रिरङ्क्षते रारज्यते रारङ्क्ति रारक्तः) तसौ ङित्त्वादनुनासिकलोपः रजयति मृगान् अरीरजत् "रञ्जोर्णौ मृगरमणे'' इति नलोपः "जनीजॄष्क्नसुरञ्जोऽमन्ताश्च'' इति मित्त्वाद्ध्रस्वः मृगादन्यत्र रञ्जयति पक्षिणः तथा रमणादन्यत्रापि रञ्जयति मृगान् तृणादिदानेन वशयतीत्यर्थः कर्मकर्त्तरि"कुषिरञ्जोः प्राचां श्यन्परस्मैपदं च''इति पक्षे श्यन्परस्मैपदयोः रज्यति वस्त्रं स्वयमेव ( रज्यतु अरज्यत् ) रज्येदिति भवति, अन्यदा यगात्मनेपदयोः रज्यतइत्यादि श्यनो ङित्त्वाद्यकः कित्त्वाच्च नलोपः, श्यन्विधी रज्यन्तीत्यत्र "शप्श्यनोर्नित्यम्'इति नित्यनुमर्थः, एते च श्यन्परस्मैपदे प्राचांग्रहणस्य व्यवस्थितविभाषात्वाद्यग्विषये तथा च वार्त्तिकम् [कुषिरञ्जोःश्यन्विधाने लसार्वधातुकवचनमवचने हि लिङ्लिटोः प्रतिषेधः स्यादिविषये च] इति अत्र लिङाशीर्विषयः, स हि सार्वधातुकप्रतियोगी, तेन रङ्क्षीष्ट वस्त्रं स्वयमेव ( ररंसे रङ्क्तासे रङ्क्ष्यते अरञ्जि अरङ्क्षातामित्यत्र श्यन्परस्मैपदं न भवति ( रजकः ) "शिल्पिनि ष्वुन्'' [ रजकरजनरजः सूपसंख्यानम् ] इति नलोपः रजकस्य वस्त्रं ददातीति भाष्ये प्रयोगादिति न्यासे त्वक्ङित्यपि रञ्जेर्मित्त्वविधानाल्लिङ्गान्नलोप इति तरङ्गिणीपदमञ्जर्योः इदं प्रौढिवादमात्रम् यतो मित्त्वं रञ्जेर्णाविति नलोपे रजयति मृगानित्यत्र ह्रस्वार्थे स्यात् तथा नलोपाभावे ( अरञ्जि अराञ्जि ) रञ्जरञ्ज, राञ्जरराञ्जमित्यत्र "चिण्णमुलोः''इति दीर्घविकल्पार्थं स्यात् "दंशसञ्जस्वञ्जां शपि'' इत्यत्र भाष्ये तु रजकरजनरजः सूपसंख्यानमिति न लोपं प्रेरयित्वा कित एवैते त्वौणादिका इति परिहृतम् अत्र कैयटेन रजक इति "क्वुन् शिल्पिसंज्ञयोः''इति क्वुन्प्रत्ययः रजकीति तु "पुंयोगादाख्यायाम्'' इति ङीषि अपुंयोगे तु ङीषा न भाव्यमिति भाष्यकाराभिप्रायः रजनमित्यत्र "रञ्जेः क्युन्'' इति क्युन्प्रत्ययः, स च बाहुलकादिति द्रष्टव्यः तेन रजनीति ङीप् भवति रज इत्यत्र "भूरञ्जिभ्यां कित्'' इत्यसुन्प्रत्ययः किद्भवतीत्युक्तम् एवमेतत्पदमञ्जर्यामपि ( रागी ) संपृचादित्वात् घिनुण् अत्रैव रजेति निर्देशान्नलोपः ( रजनं रागः ) रज्यतेऽनेनेति वा "घञि च भावकरणयोः'' इति नलोपः ( अन्यत्र स्वयमेव रज्यन्ति प्रेक्षकानां मनांसि यत्रेति रङ्गः "हलश्च''इति घञ् विरागमर्हति वैरागिकः "छेदादिभ्यो नित्यम्'' इति तदर्हतीति विषये टक् अत्र "विरागो विरङ्गं च'' इति पाठाद्विरङ्गादेशः ( रजः असुन् ) विरजीकरोति "अरुर्मनः'' इत्यादिना च्विसलोपौ "अस्यच्वौ'' इत्यकारस्येकारः ( सरसम् ) "अव्ययं विभक्ति'' इत्यादिना साकल्येऽव्ययीभावः "अव्ययीभावे चाकाले'' इति सहस्य सः "अचतुर'' इत्यादिपाठात् अयमव्ययीभावः इति वृत्त्यादौ तेनान्यत्र सरजस्कं पङ्कजमित्येव भवति यस्तु बहुव्रीहौ सरजसमिति भारविप्रयोगः स वामनालङ्कारे दूषितः, सरजसमित्यव्ययीभाव इति रजोऽस्यास्तीति रजस्वला "रजः कृष्यासुती''इत्यादीना मत्वर्थे वलच् "तसौ मत्वर्थे'' इति भसंज्ञया पदसंज्ञाया बाधनात्सकारस्य न रुत्वम् ( रजतम् ) पृषीरञ्जिकिदित्यतच् तस्य विकारो राजतम् "प्राणिरजतादिभ्योऽञ्'' इति षष्ठ्यन्ताद्विकारेऽञ्प्रत्ययः अत्र"अनुदात्तादेः''इत्येवाञि सिद्धे पुनरञ्विधानं "मयड्वै तयोः'' इति विकारमयटो बाधनादयं दिवादावपि979
रन्जँ रञ्ज (अर्थः) रागे
( रज्यते, रज्यति ) इत्यादि "अनिदिताम्'' इति नलोपः (ररञ्ज, रङ्क्ता ) इत्यादि सर्वं भौवादिकवत् श्यनेको विशेषः 59
कृदन्तरूपमाला
Sanskrit1 {@“रन्ज रागे”@} 2 ‘रजते रजतीत्येव रज्यते रज्यतीत्यपि।।
रागार्थे शप्श्यनोर्द्वे द्वे--’ 3 इति देवः।
4 रञ्जकः-ञ्जिका, 5 रञ्जकः-ञ्जिका, रजकः-जिका, 6 रिरङ्क्षकः-क्षिका, 7 रारजकः-जिका
रङ्क्ता-रङ्क्त्री, रञ्जयिता-रजयिता-त्री, रिरङ्क्षिता-त्री, रारजिता-त्री
8 रजन्-न्ती, रञ्जयन्-न्ती 9, रजयन्-न्ती 10, रिरङ्क्षन्-न्ती
-- रङ्क्ष्यन्-न्ती-ती, रञ्जयिष्यन्-रजयिष्यन्-न्ती-ती, रिरङ्क्षिष्यन्-न्ती-ती
-- रजमानः, रञ्जयमानः-रजयमानः, रिरङ्क्षमाणः, रारज्यमानः
रङ्क्ष्यमाणः, रञ्जयिष्यमाणः-रजयिष्यमाणः, रिरङ्क्षिष्यमाणः, रारजिष्यमाणः
11 अनुरक्-अनुरग्-अनुरजौ-अनुरजः
-- -- -- 12 रक्तम्-रक्तः-रक्तवान्, 13 विरक्तः-रक्तम्, रञ्जितः-रजितः 14, रिरङ्क्षितः, रारजितः-तवान्
रञ्जः, 15 रागी, 16 रञ्जनः, 17 मनोऽनुरञ्जनः, 18 इति क्वुन्प्रत्ययः।
रजकी इति ‘पुंयोगादाख्यायाम्’ 19 इति ङीष्।
अपुंयोगे तु ङीषा न भाव्यम् इति भाष्यकाराभिप्रायः।” इति कैयटेन च निर्णीतत्वात् अत्र प्रयोगे ष्वुन् न, क्युनेवेत्यतः न्यास-पदमञ्जर्यादय उपेक्ष्याः।
तदुक्तम् शब्दकौस्तुमे-- “एवञ्च, भाष्यमते नृतिखनिभ्यामेव ष्वुन्।
न तु रञ्जेः इति स्थितम्।” 20 इति।
विस्तरस्त्वन्यत्र।]] रजकः-रजकी, 21 रज्यन्-न्ती-ती, 22 रज्यमानः 23, रञ्जः-रजः, रिरङ्क्षुः, रिरञ्जयिषुः-रिरजयिषुः, रारञ्जः
रङ्क्तव्यम्, रञ्जयितव्यम्-रजयितव्यम्, रिरङ्क्षितव्यम्, रारजितव्यम्
रञ्जनीयम्, रञ्जनीयम्-रजनीयम्, रिरङ्क्षणीयम्, रारजनीयम्
24 रङ्ग्यम्, रञ्ज्यम्-रज्यम्, रिरङ्क्ष्यम्, रारज्यम्
ईषद्रञ्जः-दूरञ्जः-सुरञ्जः
-- -- -- 25 रज्यमानः, रञ्ज्यमानः-रज्यमानः, रिरङ्क्ष्यमाणः, रारज्यमानः
विरागः- 26 वैरङ्गिकः-आश्चर्यो 27 रागः, अन्यद्रागः, 28 रङ्गः, 29 रङ्गः, रञ्जः-रजः, रिरङ्क्षः, रारजः
रङ्क्तुम्, रञ्जयितुम्-रजयितुम्, रिरङ्क्षितुम्, रारजितुम्
विरक्तिः, रञ्जना-रजना, रिरङ्क्षा, रिरञ्जयिषा-रिरजयिषा, रारजा
रञ्जनम्, रञ्जनम्-रञ्जनी, रजनम्-रजनी, रिरङ्क्षणम्, रारजनम्
रक्त्वा, रञ्जयित्वा-रजयित्वा, रिरङ्क्षित्वा, रारजित्वा
30 विरज्य, विरञ्ज्य- 31 विरजय्य, विरिरङ्क्ष्य, विरारज्य
रञ्जम् २, रक्त्वा २, 32 रञ्जम् २ -राञ्जम् २ -रजम् २ -राजम् २, रञ्जयित्वा २ -रजयित्वा २, रिरङ्क्षम् २, रिरङ्क्षित्वा २, रारजम् २
रारजित्वा २
33 इति क्वुन्प्रत्ययः।
प्रत्ययस्य कित्त्वादुपधानकारलोपः।]] रजकः-रजकी, 34 इति क्युन्प्रत्ययः।
रजति रज्यते वाऽनेनेति रजनः = रजकः, रागश्च।
‘स च बाहुलकात् टिद्द्रष्टव्यः।’ इति कैयटोक्तेः 35 स्त्रियां ङीपि रञ्जनी रात्रिः, हरिद्रा च।]] रजनः-रजनी, 36 इति अतच्प्रत्यये, कित्त्वेनानुनासिलोपे च रूपम्।
रजन्तेऽस्मिन् जना इति रजतम् = लोहविशेषः।
“रजतस्य विकारो राजतम्-- ‘प्राणिरजतादिभ्योऽञ्’ 37 इति षष्ठ्यन्तात् विकारेऽञ्- प्रत्ययः।
अत्र, ‘अनुदात्तादेः--’ 38 इत्येवाञि सिद्धे पुनरञ्विधानम्, ‘मयड्वैतयोः--’ 39 इति धिकारमयटो बाधनार्थम्।” इति मा।
धा।
वृत्तिः।
एतेन ‘रजतमयम् पात्रम्’ इति च्छान्दसानां प्रयोगोऽपाणिनीय इति ज्ञेयम्।]] रजतम्, 40 इत्यसुन्प्रत्ययः, स च किच्च भवति।
रजः = अशुभम्, रेणुश्च।]] रजः।
01 (१३७२)
02 (१-भ्वादिः-९९९। अक। अनि। उभ।)
03 (श्लो। ५७-५८)
04 [[१। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु।’ इत्यभियुक्तोक्तेरयं धातुरुपदेशे नकारो- पधः। सन्धिवशाञ्ञकार इति बोध्यम्।]]
05 [[२। ण्यन्ते सर्वत्र मृगरमणभिन्नार्थे नलोपाभावादेवमेव रूपम्। ‘रजको मृगाणाम्’ इत्यत्र तु ‘रञ्जेर्णौ मृगरमणे’ (वा। ६-४-२४) इति नलोपे, ‘जनीजॄष्क्नसुरञ्जोऽ- मन्ताश्च’ (ग। सू। भ्वादिः) इति मित्संज्ञायां ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाह्रस्वः। एवमेवार्थभेदाद्रूपद्वयस्योपपत्तिः सर्वत्र बोध्या। मृगरमणम् = आखेटकः इत्येके। “परे तु ‘रजयाञ्चकार विरजाः स मृगान्--’ (किराता- र्जुनीये ६-२४) इति भारविप्रयोगात् मृगरमणं यथाश्रुतमेव। अत एव भगवता ‘रञ्जयति वस्त्राणि’ (भाष्ये ६-४-२४) इति प्रत्युदाहृतम् इत्याहुः।” इति भाष्यप्रदीपोद्द्योते निरूपितमिहावधेयम्। एतेन ‘राजर्षिकल्पो रजयन्’ इति क्षीरतरङ्गिण्युपात्तवचनस्याप्युपपत्तिर्ज्ञेया। मृगरमणम् = मृगाणाम् रमणमिति बोध्यम्। ‘जनीजॄष्क्नसुरञ्जः--’ (ग। सू। भ्वादिषु) इत्यत्रार्थविशेषोपादानाभावात् यथाश्रुतार्थे रागेऽपि मित्त्वमिति ज्ञेयम्। ‘मृग- रमणम् = मृगक्रीडा।’ इति न्यासः।]]
06 [[३। सन्नन्ते सर्वत्र धातुजकारस्य कुत्वेन गकारे, उपधानकारस्यानुस्वारपरसवर्णयोः, सनः सकारस्य षकारे, चर्त्वे च रूपमेवम्।]]
07 [[४। यङ्निमित्तक उपधानकारलोपे, अभ्यासे दीर्घे च रूपमेवम्।]]
08 [[५। शतरि शपि, ‘रञ्जेश्च’ (६-४-२६) इत्युपधानकारलोपः।]]
09 [पक्षिणः]
10 [मृगान्]
11 [[६। क्विपि, उपधानकारलोपे कुत्वे चर्त्वविकल्पे च रूपमेवम्।]]
12 [पृष्ठम्१०९७+ ३३]
13 [[१। विरक्तः, रक्तम् इत्यत्र ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तः।]]
14 [[आ। ‘कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः।।’ शि। व। ६। ९।]]
15 [[२। तच्छीलादिषु कर्तृषु ‘सम्पृचानुरुध… त्यजरजभजातिचरापचरामुषाभ्याहनश्च’ (३-२-१४२) इति घिनुण्। प्रकृतसूत्रे ‘रज’ इति निपातनात् घिनुण्यपि उपधा- नकारलोपः। तदुक्तं भाष्ये--’ ‘घिनुणि निपातनात् सिद्धम्’ (भाष्यम् ६-४-२४) इति। णित्त्वादुपधावृद्धौ, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे च रूप- मेवम्। अनुरागी इत्यादयस्तु घञन्तात् मत्वर्थीय इनिप्रत्यये साधव इति बोध्यम्।]]
16 [[३। रजति, रजते वा इति रञ्जनः। बाहुलकात् ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति कर्तरि ल्युट्। यद्वा, ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इति सूत्रभाष्ये ‘नृतिखनिरञ्जिभ्यः--’ इति वचनात् कर्तरि ष्वुन्। न चात्र नलोपः शङ्क्यः, ‘कित एवैते औणादिकाः’ इति षाष्ठभाष्यात् (६-४-२४) औणादिकक्युन्प्रत्य- यान्त एव नलोप इत्येतदुत्तरत्र स्पष्टीकरिष्यमाणत्वात् इत्यलमत्र।]]
17 [[४। मनांस्यनुरञ्जयतीति मनोऽनुरञ्जनः। नन्द्यादित्वात् (३-१-१३४) कर्मण्युपपदे कर्तरि ल्युः। गौरादि (४-१-४१) पाठात् स्त्रियां ङीष्। एवमेव रसिकरञ्जनी- प्रभृतयः शब्दाः साधवः। रसिकरञ्जिनी इति प्रयोगसत्त्वे तु ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये, ‘ऋन्नेभ्यो ङीप्’ (४-१-५) इति ङीपि तस्य साधुत्वं बोध्यम्।]]
18 [[५। ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इत्यत्र, ‘नृतिखनिरञ्जिभ्य इति वक्तव्यम्’ इति भाष्यात् कर्तरि ष्वुन्। वस्तुतस्तु षष्ठे (६-४-२४) “कित एवैते औणादिकाः।” इति भाष्येण ‘रजकरजनरजस्सूपसंख्यानं कर्तव्यम्’ (वा। ६-४-२४) इति वार्तिकप्रत्याख्यानपरेण, “रजकः इत्यत्र ‘क्वुन् शिल्पिसंज्ञयोः--’ [द। उ। ३-५]
19 (४-१-४८)
20 (३-१-१४५)
21 [[६। ‘कुषिरजोः प्राचां श्यन् परस्मैपदं च’ (३-१-९०) इति कर्मकर्तरि विकल्पेन श्यन्प्रत्ययः परस्मैपदं च। यगात्मनेपदयोरपवादौ। एतच्च व्यवस्थितविभाषेति काशिकादिषु स्पष्टम्। श्यनः अपित्सार्वधातुकत्वेन ङिद्वद्भावः। तेन, ‘अनिदिताम्--’ (६-४-२४) इति उपधानकारलोपः। स्त्रियाम्, ‘आच्छी- नद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः।]]
22 [पृष्ठम्१०९८+ २७]
23 [वस्त्रः स्वयमेव]
24 [[१। निष्ठायामनिट्त्वात् ण्यति, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे रूपमेवम्।]]
25 [[२। यगात्मनेपदयोरपवादत्वेन श्यन्परस्मैपदयोविंहितयोरपि, ‘कुषिरजोः प्राचाम् --’ (३-१-९०) इत्यत्र ‘प्राचां’ ग्रहणात् पक्षे यगात्मनेपदे भवत इति रूप- स्यास्यापि साधुत्वं बोध्यम्।]]
26 [[३। विपूर्वकादस्माद् भावे घञि, ‘घञि च भावकरणयोः’ (६-४-२७) इति उपधान- कारलोपे, ‘अत उपधायाः’ (७-२-११६) इत्युपधाभूताकारस्य वृद्धौ, ‘चजोः--’ (७-३-५२) इति कुत्वे च विरागः इति सम्पद्यते। तस्मात् ‘विरागमर्हति’ इत्यर्थे, ‘छेदादिभ्यो नित्यम्’ (५-१-६४) इति ठक्प्रत्यये, ‘विरागो विरङ्गं च’ (ग। सू। ५-१-६४) इति गणपाठात् प्रकृतेर्विरङ्गादेशे, आदिवृद्धौ च वैरङ्गिकः इति रूपमिति बोध्यम्।]]
27 [[४। रज्यतेऽनेनेति रागः। करणे घञि, ‘घञि च भावकरणयोः’ (६-४-२७) इत्युपाधानकारलोपे, उपधाभूताकारस्य वृद्धौ कुत्वे च रूपमेवम्। अन्यद्रागः इत्यत्र, ‘अषष्ठ्यतृतीयास्थस्य अन्यस्य दुग् आशीराशास्थास्थितोत्सुकोति कारक- रागच्छेषु’ (६-३-९९) इति रागशब्दे परत अन्यशब्दस्य दुगागमः।]]
28 [[५। रञ्जयति प्रेक्षकाणां मनांस्यत्रेत्यर्थेऽन्तर्भावितण्यर्थाद्धातोरधिकरणे घञि कुत्वे रूप- मेवम्। रङ्गः = नाटकादीनां प्रेक्षणस्थानम्।]]
29 [[६। ‘हलश्च’ (३-३-१२१) इत्यनेन संज्ञायां घञि, ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घप्रत्यये वा सति कुत्वे रूपमेवम्। रङ्गः = देशविशेषः, देवश्च।]]
30 [पृष्ठम्१०९९+ ३०]
31 [[१। ण्यन्तात् क्त्वो ल्यपि मृगरमणार्थे नकारलोपे, मित्संज्ञकत्वात् उपधाह्रस्वे च ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशे रूपमेवम्।]]
32 [[२। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादिषु) इत्यत्रार्थविशेषानिर्देशपुरस्सरं मित्त्वानुशासनात्, अनुपधात्वेऽपि रञ्जम् २-राञ्जम् २ इति दीर्घविकल्पः, ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति सूत्रेण भवतीति माधवः। मृगरमणार्थे नलोपपक्षे तु रजम् २-राजम् २ इति द्विरूपविषये न विप्रति- पत्तिरिति ज्ञेयम्।]]
33 [[३। ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ [द। उ। ३-५]
34 [[४। ‘रजः क्युन्’ [द। उ। ५-२४]
35 (६-४-२४)
36 [[५। ‘पृषिरञ्जिभ्यां कित्’ [द। उ। ६-१५]
37 (४-३-१५४)
38 (४-२-४४)
39 (४-३-१४३)
40 [[६। ‘भूरञ्जिभ्यां कित्’ [द। उ। ९। ७६]
1 {@“रन्ज रागे”@} 2 3 धातोरस्यापि ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ 4 इत्यत्र ग्रहणं ज्ञेयम्।
क्षीरस्वामिना “स्वरितेत्त्वार्थं विकरणार्थं च इह 5 पाठः।” इत्युक्तम्।
भ्वादिष्वपि उभयपदित्वस्याविशिष्टत्वात् तत्रापि स्वरितेत्त्वस्यैवाङ्गीकाराच्च चिन्त्यमिदमिति ज्ञेयम्।
विकरणार्थं स्वरार्थमिति स्यादिति भाति।]] ‘रजते रजतीत्येव रज्यते रज्यतीत्यपि।।
रागार्थे शप्श्यनोर्द्वे द्वे…।’ 6 इति देवः।
7 रञ्जकः-ञ्जिका, रञ्जकः-रजकः-ञ्जिका-जिका, रिरङ्क्षकः-क्षिका, रारजकः-जिका
रङ्क्ता-रङ्क्त्री, रञ्जयिता-रजयिता-त्री, रिङ्क्षिता-त्री, रारजिता-त्री
इत्यादिकानि सर्वाणि रूपाणि भौवादिकरजतिवत् 8 ज्ञेयानि।
शतरि 9 रज्यन्-न्ती, इति, शानचि, रज्यमानः इति च भवति।
भौवादिकधातुवत् सर्वाण्यपि विशेषरूपाण्यस्मादपि भवन्तीति च बोध्यम्।
घिनुणि- 10 रागी।
01 (१३७३)
02 (४-दिवादिः-११६७। अक। अनि। उभ।)
03 [[[अ]
04 (ग। सू। भ्वादिषु)
05 (दिवादिषु)
06 (श्लो। ५७-५८)
07 [पृष्ठम्११००+ २८]
08 (१३७२)
09 [[१। शतरि शपो दिवादित्वाच्छ्यनि, तस्यापित्सार्वधातुकत्वेन ङिद्वद्भावात्, ‘अनि- दितां हल उपधायाः क्ङिति’ (६-४-२४) इत्युपधानकारलोपः।]]
10 [[आ। ‘एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्।’ भ। का। ७। ९।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
