रध (radha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
Englishधातुपाठः (Krishnacharya)
Sanskrit रध्
रध
हिंसा-संराद्ध्योः
दिवादिः
हिंसायां सकर्मकः, संराद्धौ अकर्मकः
वेट्
परस्मैपदी
रध्यति
पुषादिः
धातुप्रदीपः
Sanskritरधँ रध हिंसा, संराद्ध्योः
- रध्यति ररन्ध ररन्धतुः ररन्धिव ररन्धिम नित्यत्वात् परत्वाच्च नुमि कृते संयोगान्तत्वात् कित्त्वं नास्तीति नलोपाभावः अरधत् लभा, उपलभ्यत इत्यादौ नलोपो भवत्येव, निमित्तस्यानुपघातात् रधिता रद्धा रत्स्यति रधिष्यति अरन्धि रन्धकः रन्धनम् रद्धः 87
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritक्षीरतरङ्गिणी
Sanskritरधँ रध हिंसा, संराद्धयो
- (अर्थविवरणम्) संराद्धिः पाकः
राध्यति रधादिभ्यश्च (5245) इतीड् वा-रधिता रद्धा रधिजभोरचि (7161) इति नुम्-रन्धयति नेट्यलिटि रधेः (7162) नुम्-रधिष्यति, लिटि-ररन्धिव अरधत्, अनिदिताम् (6424) इति न लोपः अरत्स्यत्, अरधिष्यत् रद्धः रन्धनम् 81
धातुवृत्तिः
Sanskritरधँ रध (अर्थः) हिंसा, संराद्ध्योः
(अर्थविवरणम्) संराद्धिः पाकः
( रन्ध्यति ररन्ध, ररन्धतुः, ररन्धुः, ररन्ध, ररन्धिथ, ररन्धुः, ररन्ध, ररन्धिव, ररन्धिम, रेन्ध्व, रेन्ध्म, ) "रधादिभ्यश्च'' इतीड्विकल्पो वलाद्यार्धधातुके तत्रानिटि थलि "झषस्तथोः'' इति थकारस्य धकारे पूर्वस्यजश्त्वे दकारः वस्मसोरेवाभ्यासलोपौ इडादौ लिट्यन्यस्मिंश्चाजादौ "रधिजभोरचि'' इति नुम् ( ररन्धिव, ररन्धिम ) इत्यत्र रन्ध्व रन्ध्म इति स्थिते "असंयोगाल्लिट्कित्'' इति कित्त्वात्पूर्वं परत्वादिट्, तत्रापि कित्त्वान्नित्यत्वान्नुमि सतीदानीं संयोगान्तत्वेन वस्मसोः कित्त्वाभावात् "अनिदिताम्'' इति नलोपाभावः हरदत्तस्तु इटः परत्वमाश्रित्य "नेट्यलिटि'' इत्यत्राह इटि सत्यजादित्वाद् नुमा भवितव्यम्, प्रागेव कित्त्वं प्राप्नोति न चालिटीत्यस्य वैयर्थ्यं, थल्यर्थवत्त्वात् एवं धातोरित्यनुवृत्तेरुपदेश एव नुम्भवति, अचीत्येषा विषयसप्तमीत्याह ( रधिता, रद्धा, ) अनिट्पक्षे थलीव धत्वजश्त्वे "नेट्यलिटि रधेः'' इति लिड्वर्जितेडादौ नुमो निषेधः ( रधिष्यति, रत्स्यति रध्यतु अरध्यत् रध्येत् रध्यात् ) लिङौ (अरधत्) अङि "रधिजभोः'' इति नुमि "अनिदिताम्'' इति नलोपः ( रिरधिषति रिरत्सति रारन्धीति, रारद्धि रन्धयति, ) नित्यत्वात्पूर्वन्नुमि सति अनुपधात्वान्न वृद्धिः (अररन्धत्, ) "अनिदिताम्'' इति नलोपो णिलोपस्य स्थानिवत्त्वात् चङो व्यवधानान्न भवति ( रन्धनं, रन्धकः ) "रधिजभोरचि'' इति नुम् क्वसौ तु द्विर्वचनैत्वाभ्यासलोपेषु "वस्वेकाजात्'' इतीटि नुमि, तस्य संयोगान्तत्वेन "असंयोगाल्लिट्कित्'' इत्यातिदेशिककित्त्वाभावेऽप्यौपदेशिककित्वाश्रयणे नलोपे रेधिवानिति 85
कृदन्तरूपमाला
Sanskrit1 {@“रध हिंसासंराद्ध्योः”@} 2 ‘रध हिंसायाम्’ इत्येव प्रौढमनोरमादिषु पाठः।
‘-- हिंसासंसिद्ध्योः’ इति काशिकायां 3 दृष्टः पाठः।
4 5 रन्धकः-न्धिका, रन्धकः-न्धिका, 6 रिरधिषकः-रिरत्सकः-त्सिका, रारधकः-धिका
रधिता- 7 रद्धा-रद्ध्री, रन्धयिता-त्री, रिरधिषिता-रिरत्सिता-त्री, रारधिता-त्री
8 रध्यन्-न्ती, रन्धयन्-न्ती, रिरधिषन्-रिरत्सन्-न्ती
-- रधिष्यन्- 9 रत्स्यन्-न्ती-ती, रन्धयिष्यन्-न्ती-ती, रिरधिषिष्यन्-रिरत्सिष्यन्-न्ती-ती
व्यतिरध्यमानः, रन्धयमानः, व्यतिरिरधिषमाणः-व्यतिरिरत्समानः, रारध्यमानः
व्यतिरधिष्यमाणः-व्यतिरत्स्यमानः, रन्धयिष्यमाणः, व्यतिरिरधिषिष्यमाणः-व्यतिरिरत्सिष्यमाणः, रारधिष्यमाणः
सुरत्-सुरधौ-सुरधः
-- -- 10 रद्धम्-रद्धः-रद्धवान्, रन्धितम्-तः, रिरधिषितः-रिरत्सितः, रारधितः-तवान्
रन्धः, 11 रन्धनः, 12 साधुरन्धी, 13 14 रेधिवान्, रन्धः, रिरधिषुः-रिरत्सुः, 15 रारन्धः
रधितव्यम्-रद्धव्यम्, रन्धयितव्यम्, रिरधिषितव्यम्-रिरत्सितव्यम्, रारधितव्यम्
रन्धनीयम्, रन्धनीयम्, रिरधिषणीयम्-रिरत्सनीयम्, रारधनीयम्
राध्यम्, रन्ध्यम्, रिरधिष्यम्-रिरत्स्यम्, रारध्यम्
ईषद्रन्धः- 16 दूरन्धः-सुरन्धः
-- -- रध्यमानः, रन्ध्यमानः, रिरधिष्यमाणः-रिरत्स्यमानः, रारध्यमानः
रन्धः, रन्धः, रिरधिषः-रिरत्सः, रारधः
17 रधितुम्-रद्धुम्, रन्धयितुम्, रिरधिषितुम्-रिरत्सितुम्, रारधितुम्
रद्धिः, रन्धना, रिरधिषा-रिरत्सा, रारधा
रन्धनम्, रन्धनम्, रिरधिषणम्-रिरत्सनम्, रारधनम्
रधित्वा-रद्ध्वा, रन्धयित्वा, रिरधिषित्वा-रिरत्सित्वा, रारधित्वा
अनुरध्य, अनुरन्ध्य, प्ररिरधिष्य-प्ररिरत्स्य, प्ररारध्य
रन्धम् २, रधित्वा-रद्ध्वा २, रन्धम् २, रन्धयित्वा २, रिरधिषम् २-रिरत्सम् २, रिरधिषित्वा २-रिरत्सित्वा २, रारधम् २
रारधित्वा २। 18
01 (१३७१)
02 (४-दिवादिः-११९३। सक। सेट्। पर।)
03 (७-२-४५)
04 [पृष्ठम्१०९४+ २४]
05 [[१। ‘रधिजभोरचि’ (७-१-६१) इति अजादिप्रत्ययेषु सर्वत्र नुमागमः। ण्यन्तेषु च णिज्निमित्तको नुमागमः सर्वत्र बोध्यः।]]
06 [[२। ‘रधादिभ्यश्च’ (७-२-४५) इति इड्विकल्पः। इट्पक्षे, ‘नेट्यलिटि रधेः’ (७-१-६२) इति नुम्निषेधः। इडभावपक्षे ‘खरि च’ (८-४-५५) इति चर्त्वे रिरत्सकः इत्यादीनि रूपाणीति सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
07 [[३। तृचि, इडभावपक्षे, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वे जश्त्वे च रूपमेवम्।]]
08 [[४। शतरि दिवादित्वाच्छ्यनि रूपमेवम्। स्त्रियां नुम्विकल्पः।]]
09 [[५। स्यप्रत्ययेऽपि इडभावपक्षे धातुधकारस्य चर्त्वेन तकार इति ज्ञेयम्।]]
10 [[६। रधाद्यष्टकान्तर्गतत्वेन धातोर्वैकल्पिकेट्कत्वात्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। नच रधादिव्यतिरिक्तेषु धातुषु ‘यस्य विभाषा’ (७-२-१५) इत्यस्य चरितार्थत्वात्, ‘रधादिभ्यश्च’ (७-२-४५) इत्यस्य परत्वाच्च निष्ठायामपि इण्निषेधं बाधित्वा इड्विकल्प एव तृजादिष्विव न्याय्य इति वाच्यम्
\n\n ‘निषेधाश्च बलीयांसः’ (परि। १२२) इति न्यायेन, पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्याच्च ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन रधादिषु विषयेऽपि निष्ठायाम् इण्निसेधस्यैव प्रामाणिकत्वात्। विस्तरस्त्वन्यत्र।]]
11 [[७। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युप्रत्यये नुमागमः।]]
12 [[८। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः। काशिकायाम् (७-१-६१) प्रयुक्तोऽयम्।]]
13 [पृष्ठम्१०९५+ २३]
14 [[१। लिटः क्वसौ, ‘अत एकहल्मध्ये--’ (६-४-१२०) इत्येत्वाभ्यासलोपयोः कृतयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे, नुमागमे, संयोगान्तत्वेन ‘असंयोगाल्लिट् कित्’ (१-२-५) इति कित्त्वाप्राप्तावपि औपदेशिकं क्वसुप्रत्ययगतं कित्त्वमाश्रित्योपधानकारलोपे रेधिवान् इति सम्पद्यते। अत्रैवंरूपनिष्पत्ति- विषये आक्षेपसमाधानप्रकारौ न्यासे (७-१-६२) द्रष्टव्यौ। क्वसोश्छान्दसैकान्त्या- भावप्रतिपादनं तु ‘नेट्यलिटि रधेः’ (७-१-६२) इत्यत्र भाष्यप्रदीपोद्द्योते द्रष्टव्यम्।]]
15 [[२। यङन्तात् पचाद्यचि (३-१-१३४), यङो लुकि, ‘रधिजभोरचि’ (७-१-६१) इति नुम्।]]
16 [[३। दुरुपपदाद्रधेः कृच्छ्रार्थे खल्। ‘रो रि’ (८-३-१४) इति रेफलोपे, ‘ढ्रलोपे पूर्वस्य--’ (६-३-१११) इति दीर्घः।]]
17 [[आ। ‘अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम्।।’ भ। का। ९-२९।]]
18 [पृष्ठम्१०९६+ २६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
