| YouTube Channel

रथन्तरः (rathantaraH)

 
शब्दकल्पद्रुमः
Sanskrit
रथन्तरः, त्रि, रथेन तरति यः इति मुग्धबोध-व्याकरणम्
(कल्पविशेषे, पुं यथा, मत्स्य-पुराणे ५३ ३३ -- ३४ ।“रथन्तरस्य कल्पस्य वृत्तान्तमधिकृत्य यत् ।सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम्
यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहुः ।तदष्टादशसाहस्रं ब्रह्मवैवर्त्तमुच्यते
”रथेन तरतीति तॄ + “संज्ञायां भृतॄवृजि-धारिसहितपिदमः ।” ४६ इतिखच् मुम्च अत्र व्युत्पत्तिमात्रम् नत्व-वयवार्थानुगमः सामभेदे, क्ली यथा, ऋग्-वेदे १६४ २५ ।“जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्य्यं पर्य्य-पश्यत्
”“रथन्तरे एतन्नामके साम्नि ।” इति तद्भाष्येसायणः स्त्रियां ङीप् रथन्तरी पौरवस्यईलिनस्य भार्य्या यथा, महाभारते ९४ १७ ।“रथन्तर्य्यां सुतान् पञ्च पञ्चभूतोपमांस्ततः ।ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान्
”)