| YouTube Channel

रथः (rathaH)

 
Apte
English
रथः [rathḥ], [रम्यतेनेन अत्र वा, रम्-कथन्
cf.
Uṇ.*
2.2]
A carriage, chariot, car, vehicle
especially, a war-chariot.
A hero (for रथिन्)
अपवातेषु पार्येषु त्रयस्ते$भावञ् रथाः
Mb.
* 1.2.92.
A foot.
A limb, part, member.
The body
cf.
आत्मानं रथिनं विद्धि शरीरं रथमेव तु Kaṭh. 1.3.3.
A reed.
Pleasure, delight.
Comp.
अक्षः a carriage-axle.
a measure of length (= 14 aṅgulas).
अङ्गम् any part of a carriage.
particularly, the wheels of a carriage
रथो रथाङ्गध्वनिना विजज्ञे
R.*
7.41
Ś.*
7.1.
a discus, especially of Viṣṇu
चक्रधर इति रथाङ्गमदः सततं विभर्षि भुवनेषु रूढये
Śi.*
15.26.
a potter's wheel. (-ङ्गः) the ruddy goose. ˚आह्वयः, ˚आह्वानः, ˚नामकः, ˚नामन्
m.
the ruddy goose (चक्रवाक)
रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः
V.*
4. 18
Ku.*
3.37
R.*
3.24
रथाङ्गाह्वानानां भवति विधुरम् Udb.
(the male bird is said by poets to be separated from the female at night, and to be united at sun-rise). ˚पाणिः
N.
of Viṣṇu
रथाङ्गपाणेः पटलेन रोचिषा
Śi.*
1.21
दुरन्तवीर्यस्य रथाङ्गपाणेः Bhāg. -अभ्रः a reed cane. -अर्थकः a small carriage. -अश्वः a carriage-horse -आयुधकः a kind of bow. -आरोहः one who fights from a chariot.-ईशः a warrior fighting from a chariot. -ईषा, -शा the pole of a carriage
रथेषाश्च रथेषाभिः ... संगतैः सहिताः
Mb.
* 6.46.5. -उडुपः, -पम् the body of a chariot.-उद्वहः, -उपस्थः the seat of a chariot, the driving-box
रथोपस्थ उपाविशत्
Bg.*
1.47. -कट्या, -कड्या an assemblage of chariots. -कल्पकः an officer who is in charge of a king's chariots.
करः, कारः a coachbuilder, carpenter, wheel-wright
रथकारः स्वकां भार्यां सजारां शिरसा- वहत्
Pt.*
4.54.
N.
of a caste called सौधन्वन (q. v. )
तस्मादत्रैवर्णिको रथकारः ŚB. on MS.* 6.6.47
परिशेषाद- त्रैवर्णिको रथकारः स्यात् ŚB. on MS.* 6.1.44. ˚न्यायः The rule according to which the रूढ अर्थ is stronger than the यौगिक अर्थ
cf.
योगाद्रूढिर्बलीयसी. This is discussed and established in connection with the word रथकार by Jaimini and शबर in MS.* 6.1.44-5. -सुटुम्बिकः, -कुटुम्बिन्m. a charioteer, coachman. -कूबरः, -रम् the pole or shaft of a carriage
कूबरा रथकूबरैः ... संगतैः सहिताः
Mb.
* 6. 46.5. -केतुः the flag of a chariot. -क्षोभः the jolting of a chariot
रथक्षोभपरिश्रमम्
R.*
1.58. -गणकः an officer who counts chariots. -गर्भकः a litter, palanquin. -गुप्तिःf. a fence of wood or iron with which a chariot is provided as a protection from collision. -घोषः the rattling of a chariot.
चरणः, पादः a chariot-wheel
धृतरथचरणो$भ्ययाच्चलद्गुः
Bhāg.*
1.9.37
Dk.*
2.7.
the सुदर्शन wheel
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति Śivamahimna 18.
the ruddy goose. -चर्या chariot-exercise, the use of a chariot, travelling by carriage
अनभ्यस्त- रथचर्याः
U.*
5
सारथे रथचर्यासु सज्जो भव सुशिक्षितः Bm. 1.684.-जङ्घा the hinder part of a chariot. -ज्वरः a crow.-दुर्गम् the throng of chariots. -धुर्
f.
the shaft or pole of a chariot. -नाभिः
f.
the nave of the wheel of a chariot
रथनाभिरिवाभिख्यायेत Ait.
Up.*
2.4.5. -नीडः the inner part or seat of a chariot. -पुंगवः a chief or distinguished warrior.
बन्धः the fastenings or harness of a chariot.
a league of warriors. -महोत्सवः,
-यात्रा the solemn procession of an idol placed in a car (usually drawn by men). -मुखम् the forepart of a carriage. -युद्धम् 'a chariot-fight', a fight between combatants mounted on chariots. -योगः a team (of horses etc.) on a chariot
Bri. Up. -योजकः a charioteer, harnesser of a chariot. -वंशः a number of chariots.-वर्त्मन्
n.
, -वीथिः
f.
highway, main road. -वारकः son of a Śūdra and a Sairandhrī.
वाहः a carriagehorse.
charioteer. -विज्ञानम्, -विद्या the art of driving chariots. -शक्तिः
f.
the staff which supports the banner of a war-chariot
रथशक्तिं मुमोचासौ दीप्तामग्नि- शिखामिव
Mb.
* 1.6.13. -शाला a coach-house, carriageshed. -शास्त्रम्, -शिक्षा the art of driving a chariot, coachmanship. -सप्तमी the seventh day in the bright half of Māgha.
Apte 1890
English
रथः [रम्यतेऽनेन अत्र वा, रम्-क्थन्
cf. Uṇ. 2. 2] 1 A carriage, chariot, car, vehicle
especially, a warchariot.
2 A hero (for रथिन्).
3 A foot.
4 A limb, part, member.
5 The body
cf. आत्मानं रथिनं बिद्धि शरीरं रथमेव तु Kaṭh.
6 A reed.
7 Pleasure, delight.
Comp.
अक्षः {1} a carriage-axle. {2} a measure of length (= 104 angulas).
अंगं {1} any part of a carriage. {2} particularly, the wheels of a carriage
रथो रथांगध्वनिना विजज्ञे R. 7. 41
Ś. 7. 10. {3} a discus, especially of Viṣṇu
चक्रधर इति रथांगमदः सततं बिभर्षि भुवनेषु रूढये Śi. 15. 26. {4} a potter's wheel. (
गः) the ruddy goose. °आह्वयः, °नामकः, °नामन् m. the ruddy goose (चक्रवाक)
रथांगनामन् वियुतो रथांगश्रोणिबिंबया अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः V. 4. 18
Ku. 3. 37
R. 3. 24
(the male bird is said by poets to be separated from the female at night, and to be united at sun-rise). °पाणिः N. of Viṣṇu.
अभ्रः a reed cane.
अर्थकः a small carriage.
अश्वः a carriage-horse.
ईशः a warrior fighting from a chariot.
ईषा
शा the pole of a carriage.
उद्बहः,
उपस्थः the seat of a chariot, the driving-box.
कट्या,
कड्या an assemblage of chariots.
कल्पकः an officer who is in charge of a king's chariots.
कारः a coachbuilder, carpenter, wheel-wright
रथकारः स्वकां भार्यां सजारां शिरसावहत् Pt. 4. 54.
कुटुंबिकः,
कुटुंबिन् m. a charioteer, coachman.
कूबरः
रं the the pole or shaft of a carriage.
केतुः the flag of a chariot.
क्षोभः the jolting of a chariot
R. 1. 58.
गणकः an officer who counts chariots.
गर्भकः a litter, palanquin.
गुप्तिः f. a fence of wood or iron with which a chariot is provided as a protection from collision.
चरणः,
पादः {1} a chariot-wheel. {2} the ruddy goose.
चर्या chariot-exercise, the use of a chariot, travelling by carriage
अनभ्यस्तरथचर्याः U. 5.
ज्वरः a crow.
धुर् f. the shaft or pole of a chariot.
नाभिः f. the nave of the wheel of a chariot.
नीडः the inner part or seat of a chariot.
पुंगवः a chief or distinguished warrior.
बंधः the fastenings or harness of a chariot.
महोत्सवः,
यात्रा the solemn procession of an idol placed in a car (usually drawn by men).
मुखं the forepart of a carriage.
युद्धं ‘a chariot-fight, a fight between combatants mounted on chariots.
योजकः a chariotcer, harnesser of a chariot.
वर्त्मन् n.,
वीथिः f. highway, main road.
वाहः {1} a carriage-horse. {2} a charioteer.
शक्तिः f. the staff which supports the banner of a war-chariot.
शाला a coach-house, carriage-shed.
शास्त्रं,
शिक्षा,
विद्या the art of driving a chariot, coachmanship.
सप्तमी the seventh day in the bright half of Māgha.
Apte Hindi
Hindi
रथः
पुं*
- रम्यतेऽअनेन अत्र वा - रम् + कथन्
"गाड़ी, जलूसी गाड़ी, यान, वाहन, विशेषकर युद्धरथ"
रथः
पुं*
- -
नायक(रथिन्)
रथः
पुं*
- -
पैर
रथः
पुं*
- -
"अवयव, भाग, अंग"
रथः
पुं*
- -
शरीर
रथः
पुं*
- -
नरकुल
रथः
पुं*
- रम्+कथन्
"गाड़ी, बहली"
रथः
पुं*
- रम्+कथन्
पैर
रथः
पुं*
- रम्+कथन्
"अंग, भाग"
रथः
पुं*
- रम्+कथन्
शरीर
रथः
पुं*
- रम्+कथन्
"हर्ष, आह्लाद"
Wordnet
Sanskrit
Synonyms:
तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्चुलः, चित्रकृत्, चक्री, शताङ्गः, शकटः, रथः, रथिकः, भस्मगर्भः, मेषी, जलधरः
noun
शिंशपाजातीयः वृक्षः यस्य पत्राणि खदिरवत् भवन्ति।
"तिनिशस्य काष्ठम् अतीव दृढं भवति।"
Tamil
Tamil
ரத2: : தேர், வண்டி, வாஹனம், உடல், கால், அவயவம், பாதம்.
अमरकोशः
Sanskrit
Word: रथः
Root: रथ
Gender: पुं
Number: all
Meaning(s):
car
joy
hero
limb
part
love
cart
body
goer
wagon
member
chariot
delight
warrior
pleasure
champion
affection
two-wheeled war-chariot
any vehicle or equipage or carriage
rattan plant [Calamus Rotang - Bot.]
Sandan tree [ Desmodium oojeinense - Bot. ]
Shloka(s):
2|8|51|1 याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः। (क्षत्रियवर्गः)
Synonym(s):
2|8|51|1 शताङगः (शताङ्ग) (पुं) chariot, manifold, hundred-membered, Sandan tree [ Desmodium oojeinense - Bot. ]
2|8|51|1 स्यन्दनः (स्यन्दन) (पुं) air, wind, running, dripping, dissolving, liquefying, sprinkling, war-chariot, moving on swiftly, particular spell recited over weapons, Sandan tree [ Desmodium oojeinense - Bot. ]
2|8|51|1 रथः (रथ) (पुं) car, joy, hero, limb, part, love, cart, body, goer, wagon, member, chariot, delight, warrior, pleasure, champion, affection, two-wheeled war-chariot, any vehicle or equipage or carriage, rattan plant [Calamus Rotang - Bot.], Sandan tree [ Desmodium oojeinense - Bot. ]
Related word(s):
अवयव_अवयवीसंबन्धः शस्त्राघादरक्षनार्थलोहादिमयावरणम्
परा_अपरासंबन्धः शुक्लकम्बलवेष्टितरथः
स्व_स्वामीसंबन्धः रथस्वामिः
जातिः चलनिर्जीवः
उपाधि वाहनम्
उपजीव्य_उपजीवक_भावः सारथिः
अन्यसंबन्धाः सारथिः
शब्दकल्पद्रुमः
Sanskrit
रथः,
पुं,
(रम्यतेऽनेनात्र वा रम् + “हनिकुषिनीरमिकाशिभ्यः क्थन् ।” उणा० ।इति क्थन् अनुनासिकलोपश्च ।) कायः ।(यथा, गीतायाम् ।“आत्मानं रथिनं विद्धि शरीरं रथमेव
”)चरणः वेतसवृक्षः इति विश्वः
(अस्यपर्य्यायो यथा, --“वेतसो नम्रकः प्रोक्तो वाणीरो वञ्जुलस्तथा ।अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)तिनिशवृक्षः इति राजनिर्घण्टः
चक्र-विशिष्टयुद्धार्थयानम् तत्पर्य्यायः शताङ्गः २स्यन्दनः इत्यमरः ५१
स्यन्दन-मात्रम् इत्यजयः
(यथा, मनुः २९५ ।“स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा ।प्रमापयेत् प्राणभृतस्तत्र दण्ड्योऽविचारितः
”)तद्द्वारा भ्रमणगुणाः ।“हस्त्यश्वरथदोलाद्यैर्भ्रमणं वातकोपनम् ।स्थिरीकरणमङ्गानां बल्यं वह्निविवर्द्धनम्
”इति राजवल्लभः
*
रथविशेषाणां नामानि यथा, --“युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ।संक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः
योग्यो रथो वैनायिकोऽध्वरथः परिघातिकः ।कर्णीरथः प्रवहणं डयनं रथगर्भकः
अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम् ।अथ काम्बलवस्त्राद्यास्तैस्तैः परिवृते रथे
सपाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः ।सत्तु द्वैपो वैयाघ्रश्च यो वृतो द्बीपिचर्म्मणा
”इति हेमचन्द्रः
गोलोकस्य रथो यथा, --“प्रदत्तं विप्रपत्नीभिर्म्मिष्टमन्नं सुधोपमम् ।बालकान् भोजयित्वा तु स्वयञ्च बुभुजे विभुः
एतस्मिन्नन्तरे तत्र शातकुम्भरथं वरम् ।ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् ।रत्नस्तम्भैर्न्निबद्धञ्च सद्रत्नकलसोज्ज्वलम्
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् ।पारिजातप्रसूनानां मालाजालविराजितम्
शतचक्रसमायुक्तं मनोयायि मनोहरम् ।वेष्टितं पार्षदैर्द्दिव्यैर्व्वनमालाविभूषितैः
पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः ।नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः
हिभुत्रैर्मुरलीहस्तैर्गोपवेशधरैर्व्वरैः ।शिखिपुच्छगुञ्जमालाबद्धवङ्किमचूडकैः
अवरुह्य रथात्तर्णं ते प्रणम्य हरेः पदम् ।रथमारोहणं कर्त्तमूचुर्ब्राह्मणकाभिनीः
विप्रभार्य्या हरिं नत्वा जर्ग्मुर्गोलोकमीप्सितम् ।बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १८ अध्यायः
देव्या रथयात्रा यथा, --ब्रह्मोवाच ।“भूयस्त संप्रवक्ष्यामि देव्याराधनमुत्तमम् ।यत् कृत्वा सर्व्वकामाणां व्याप्तिस्तृप्तिर्भविष्यति
दन्तिदन्तमयैर्द्दण्डैर्हेमबद्धैः सुशोभनैः ।विचित्रपद्मरागाद्यैर्म्मणिभिरुपशोभितैः
रथन्तैः कारयेद्देव्या सप्तभौमं मनोरमम् ।दुकूलवस्त्रसंछन्नमर्द्धचन्द्रोपशोभितम्
घण्टाकिङ्किणिशङ्खाढ्यं चामरैः कटकान्वितम् ।पताकाध्वजशोभाढ्यं दर्पणैरुपशोभितम्
तं रथं पूजयेच्छक्र जातीकुसुममल्लिकैः ।पारिजातकपुष्पैश्च यक्षकर्द्दमचन्दनैः
सुगन्धधूपितैः कृत्वा देवीं तत्र निवेशयेत् ।प्रतिमां शोभनां वत्स ! महासुरक्षयङ्करीम्
पूजयेद्रथविन्यस्तां सर्व्वमङ्गलमङ्गलाम् ।दुर्गा कात्यायनी देवी वरदा विन्ध्यवासिनी
निशुम्भशुम्भमथनी महिषासुर घातिनी ।प्रसीदतु सदा मेऽस्तु यच्च नो वाञ्छितं हृदि
अनेन वलिपूर्व्वेण नमस्कारयुतेन ।पूजयित्वा ततो नेया समस्ताप्सरगीतकैः
पञ्चमी सप्तमी पूर्णा नवम्येकादशीषु ।तृतीयाशिवविघ्नेशदिवसेषूत्सवेषु
महानदीनदसंज्ञपर्व्वतस्रवणेषु ।तत्र मण्डपविन्यासं महदाविष्टनिर्म्मितम्
शैलं वा मृण्मयं वापि कृत्वा वास्तुविचारितम् ।सर्व्वलक्षणसंपूर्णं सर्व्वशोभासमन्वितम्
पूर्व्वे कारयेच्छक्र पश्चाद्यात्रां प्रचक्रिरे ।महाजनपदोपेतां महास्त्रीभिः ससङ्कुलाम्
सर्व्वान्नपाननैवेद्यैः समस्तैरपि पूजयेत् ।दद्याद्वलिं शक्र सर्व्वं सर्व्वदिक्षु समन्ततः
भूयो वेतालसंघस्य मन्त्रेणानेन सुव्रत ! ।रक्ष मां निजभूतेभ्यो वलिं गृह्ण सदा प्रियम्
मातर्मातर्वरे देवि ! सर्व्वकामार्थसाधिनि ।अनेन वलिदानेन सर्व्वकामान् प्रयच्छ मे
एवं दत्त्वा वलिं शक्र तथा देव्यावतारयेत् ।विन्यसेद्भद्रपीठे तु मण्डलैरुपशोभिताम्
तत्रस्थां पूजयेद्देवीं हैमरूपैश्च ताम्रजैः ।कलसैस्तु सहस्रेण गन्धोदकसुपूरितैः
समस्तफलसम्पूर्णैर्यज्ञियैरथ पल्लवैः ।स्नापयेदेकमेकेन रत्नगर्भैर्नवैर्दृढैः
वेदमङ्गलशब्देन शङ्खवादित्रनिस्वनैः ।वेणुवीणामृदङ्गैश्च घण्टाकिङ्किणिराविणैः
स्नापयित्वा ततो देवीं निर्मञ्छेच्छनकैः शुभैः ।गोमयादिकृतैः पद्मैर्दीपवर्त्त्या विशोधितैः
स्वस्तिकैर्नन्दिकावर्त्तैः शङ्खैर्नीलोत्पलोत्पलैः ।यवशाल्यङ्कुरोद्भिन्नैर्यवाचारैर्निमज्जयेत्
प्रत्येकञ्च दहेद्धूपं प्रत्येकं कलसैः स्नपेत् ।तथा कर्पूरक्षोदेन चन्दनैः कुङ्कुमेन
गोरोचनासमेतेन देवीमालिप्य पूजयेत्
हेमजैर्जातिजैर्माल्यै रत्नमाल्यैरनेकधा ।वासोभिः सुमनैश्चित्रैः पुनर्धूपं समुत्क्षिपेत्
भक्षयेत तथा कन्या द्बिजातीनथ दुःखितान् ।भक्ष्यभोज्यान्नपानेन तत्र सर्व्वांश्च प्रीणयेत्
भोजयित्वा क्षमायेत देवि मे प्रीयतामिति ।रथे कृत्वा तथा देवीं पुनरेव गृहं नयेत्
महता जनसंघेन समस्तविभवान्वितैः ।शान्तरेणुपथं सर्व्वं पुष्पदूर्व्वाक्षतैर्ज्जलैः
प्रक्षिप्यमाणैः कन्याभिः स्त्रीभिर्भङ्गलवादिभिः ।सलिलेन यथा पांशुं कृत्वा पङ्कं प्रचक्रिरे
पुरशोभां पथे शोभां द्वारशोभां गृहे गृहे ।कारयीत तथा शक्र सर्व्ववाधां निवारयेत्
अच्छेद्यास्तरवस्तस्मिन् प्राणिहिंसां विवर्ज्जयेत् ।वन्धनस्था विमोक्तव्या बध्याः क्रोधादिशत्रवः
अकालकौमुदीं शक्र रथयात्रान्तु कारयेत् ।सर्व्वदा सर्व्वदेवैस्तु शङ्कराद्यैः प्रतिष्ठिता
रथयात्रा तदा शक्र सुरैः स्वर्गे सदा कृता ।तथा किन्नरगन्धर्व्वैर्भू पातालनिवासिभिः
रथयात्राप्रभावेण मोदन्ते दिवि देवताः ।आदित्यो रथयात्राकृद्रथेन नभसः क्रमेत्
देव्यो दिव्यविमानस्था रथयात्राप्रभावतः ।क्रीडन्ते विविधैर्भोगैः सर्व्वातङ्कविवर्जिताः
तथा त्वमपि देवेन्द्र ! रथयात्राकरो भव ।शिवायाः शिवदायास्तु परमेण समाधिना
अगस्त्य उवाच ।रथयात्राकृतं पुण्यं ब्रह्मणो वासवस्य तु ।पूर्व्वं यत् कथितं तात तत्ते सर्व्वं मयाखिलम्
व्यापितं नात्र सन्देहो देवीमाहात्म्यमुत्तमम् ।यः पठेत् शृणुयाद्बापि भक्तिमान् नृपसत्तम
सुखं यशः सौभाग्यं पुत्त्रप्राप्तिमथेप्सिताम् ।लभते नात्र सन्देह इत्येवं ब्रह्मणोऽब्रवीत्
स्वबलेन कृते राज्ये पुरा शक्रस्य कीर्त्तिता ।धनदस्य पूरीप्राप्तिर्व्वरुणस्य वायुना
हृते स्थाने कृता तेन तथा श्रुत्वा निरृतेः ।भुञ्जते परया दृष्ट्या पुरीर्भोगवतीः शुभाः
”इति देवीपुराणे रथयात्राविधिमाहात्म्यम्३९ अध्यायः
*
नवग्रहाणां रथा यथा, --“योजनानां सहस्राणि भास्करस्य रथो नव ।ईशादण्डस्तथैवास्माद्द्विगुणो द्विजसत्तमाः
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु ।योजनानान्तु तस्याक्षं तत्र चक्रं प्रतिष्ठितम्
त्रिनाभिमतिपञ्चारे षण्णेमिन्यक्षयात्मके ।संवत्सरन्तु यत् कृत्स्नं कालचक्रं प्रतिष्ठितम्
चत्वारिंसत्सहस्राणि द्बितीयोऽक्षो विवस्वतः ।पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्धिजोत्तमाः
अक्षप्रमाणमुभयोः प्रमाणं तत्परार्द्धयोः ।भूयोऽक्षस्तद्युगार्द्धे ध्रुवाधारं रथस्य वै
द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ।हयाश्च सप्त च्छन्दांसि तन्नामानि निबोधत
गायत्त्री बृहत्युष्णिक् जगती पंक्तिरेव ।अनुष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो रवेः
इति कौर्म्मे ३८ अध्यायः
“रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।वामदक्षिणतो युक्ता दश तेन निशाकरः ।वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा
सोमपुत्त्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः ।वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्व्वतः
शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः
अष्टाभिश्चाथ भौमस्य रथो हैमः सुशोभनः ।बृहस्पतेरथाष्टाश्वः स्यन्दनो हेमनिर्म्मितः
रथस्तमोमयो ह्यश्वो मन्दस्यायसनिर्म्मितः ।स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः
एते महाग्रहाणां वै समाख्याता रथा नव ।सर्व्वे ध्रुवे महाभागा निबद्बा वातरश्मिभिः
ग्रहर्क्षताराधिष्ट्यानि ध्रुवे बद्धान्यशेषतः ।भ्रमन्ति भ्रामयन्त्येनं सर्व्वाण्यनिलरश्मिभिः
”इति कौर्म्मे ४० अध्यायः
*
श्रीजगन्नाथदेवस्य रथः यात्राशब्दे द्रष्टव्यः
*
(त्रिपुरदहनार्थं महेश्वरादिष्टा देवा येन प्रकारेणतद्रथं निर्म्मितवन्तस्तदाह मात्स्ये १३३ ।१३ -- ७१ ।“त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः ।उवाच देवान् देवेशो वरदो वृषबाहनः
व्यपगच्छतु वो देवा महद्दानवजं भयम् ।तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत्
यदीच्छथ मया दग्धुं तत् पुरं सहदानवम् ।रथमोपयिकं मह्यं सज्जयध्वं किलास्य ते
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः ।तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम्
धरां कूवरकौ द्वौ तु रुद्रपार्शचरावुभौ ।अधिष्ठानं शिरो मेरोरक्षो मन्दर एव
चक्रुश्चन्द्रञ्च सूर्य्यञ्च चक्रे काञ्चन-राजते ।कृष्णपक्षं शुक्लपक्षं पक्षद्बयमपीश्वराः
रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरःसराः ।आदिद्बयं पक्षयन्त्रं यन्त्रमेताश्च देवताः
कम्बलाश्वतराभ्याञ्च नागाभ्यां समवेष्टितम् ।भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव
शनैश्चरस्तथा चात्र सर्व्वे ते देवसत्तमाः ।वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् ।मणिमुक्तेन्द्रनीलैश्च वृतं हृष्टमुखैः सुरैः
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती ।वितस्ता विपाशा यमुना गण्डकी तथा
सरस्वती देविका तथा शरयूरपि ।एताः सरिद्वराः सर्व्वा वेणुसंज्ञाः कृता रथे
धृतराष्ट्राश्च ये नागास्ते वेश्यात्मकाः कृताः ।वासुकेः कुलजा ये ये रैवतवंशजाः
ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः ।अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः
सुरसा सरमा कद्रूर्विनता शुचिरेव ।तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्व्वशमस्तथा
ब्रह्मवध्या गोवध्या बालवध्या प्रजाभयाः ।गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः
युगं कृतयुगञ्चात्र चातुर्होत्रप्रयोजकाः ।चतुर्व्वर्णाः सलीलाश्च बभूबुः स्वर्णकुण्डलाः
तंद्युगं युगसङ्काशं रथशीर्षे प्रतिष्ठितम् ।धृतराष्ट्रेण नागेन बद्धं बलवता महत्
ऋग्वेदः सामवेदश्च यजुर्व्वेदस्तथापरः ।वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन्
अन्नदानपुरोगाणि यानि दानानि कानिचित् ।तान्यासन् वाजिनां तेषां भूषणानि सहस्रशः
पद्मद्वयं तक्षकश्च कर्कोटक-धनञ्जयौ ।नागा बभूवुरेवैते हयानां बालबन्धनाः
ओङ्कारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः ।उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा
यज्ञोपवाहान्येतानि तस्मिन् लोकरथे शुभे ।मणि-मुक्ता-प्रबालैस्तु भूषितानि सहस्रशः
प्रतोदोङ्कार एवासीत् तदग्रञ्च वषट्कृतम् ।सिनीबाली कुहू राका तथा चानुमती शुभा
योक्त्राण्यासं स्तुरङ्गाणामपसर्पणविग्रहाः
कृष्णान्यथ पीतानि श्वेतमाञ्जिष्ठकानि ।अवदाताः पताकास्तु बभूबुः पवनेरिताः
ऋतुभिश्च कृतः षड्भिर्धनुः संवत्सरोऽभवत् ।अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा
कालो हि भगवान् रुद्रस्तञ्च संवत्सरं विदुः ।तस्मादुमा कालरात्रिर्धनुषो ज्याऽजराभवत्
सगर्भं त्रिपुरं येन दग्धवान् त्रिलोचनः ।स इषुर्विष्णुसोमाग्नि-त्रिदैवतमयोऽभवत्
आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः ।तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृक्
तस्मिंश्च वीर्य्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः ।तेजः संवसनार्थं वै मुमोचातिविषो विषम्
कृत्वा देवा रथञ्चापि दिव्यं दिव्यप्रभावतः ।लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन्
संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित् ।इदमापत्परित्राणं देवान् सेन्द्रपुरोगमान्
तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् ।प्रशस्य देवान् साध्विति रथं पश्यति शङ्करः
मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्म्मुहुः ।उवाच सेन्द्रानमरानमराधिपतिः स्वयम्
यादृशोऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः ।ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम्
इत्युक्ता देवदेवेन देवा विद्धा इवेषुभिः ।अवापुर्महतीं चिन्तां कर्थ कार्य्यमिति ब्रुवन्
महादेवस्य देवोऽन्यः को नाम सदृसो भवेत् ।मुक्त्वा चक्रायुधं देवं सोपास्य इषुमाश्रितः
घुरि युक्ता इवोक्षाणो घटन्त इव पर्व्वतैः ।निश्वसन्तः सुराः सर्व्वे कथमेतदिति ब्रुवन्
अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः
ततो देवैः सगन्धर्व्वैः सिंहनादो महान् कृतः ।प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम्
भगवानपि विश्वेशो रथस्थे वै पितामहे ।सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः
आरोहति रथं देवे ह्यश्वा हरभरातुराः ।जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः
देवो दृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात् ।उज्जहार पितॄनार्त्तान् सुपुत्त्र इव दुःखितान्
ततः सिंहरवो भूयो बभूव रथभैरवः ।जयशब्दश्च देवानां सम्बभूवार्णवोपमः
तदोङ्कारमयं गृह्य प्रतोदं वरदः प्रभुः ।स्वयम्भुः प्रययौ वाहाननुमन्त्र्य यथाजवम्
ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् ।मुखेभ्यः ससृजुः श्वासानुच्छ्रसन्त इवोरगाः
स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्द्दिना ।व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः
ध्वजोच्छ्रयविनिर्म्माणे ध्वजयष्टिमनुत्तमाम् ।आक्रम्य नन्दी वृषभं तस्थौ तस्मिञ्छिवेच्छया
भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ ।रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ
शेषश्च भगवान् नागः अनन्तोऽन्तकरोऽरि-णाम् ।शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा
यमस्तूर्णं ससास्थाय महिषञ्चातिदारुणम् ।द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम्
मयूरं शतचन्द्रञ्च कूजन्तं किन्नरं यथा ।गुह आस्थाय वरदो युगोपमरथं पितुः
नदीश्वरश्च भगवान् शूलमादाय दीप्तिमत् ।पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा
प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः ।अनुजग्मू रथं शार्व्वं नक्रा इव महार्णवम्
भृगुर्भरद्बाज-वसिष्ठ-गौतमाःक्रतुः पुलस्त्यः पुलहस्तपोधनाः ।मरीचिरत्रिर्भगवानथाङ्गिराःपराशरागस्त्यमुखा महर्षयः
हरमजितमजं प्रतुष्टुवु-र्वचनविषैर्विचित्रभूषणैः ।रथस्त्रिपुरे सकाञ्चनाचलोव्रजति सपक्ष इवाद्रिरम्बरे
करिगिरिरविमेघसन्निभाःसजलपयोदनिनादनादिनः ।प्रमथगणाः परिवार्य्य देवगुप्तंरथमभितः प्रययुः स्वदर्पयुक्ताः
मकर-तिमि-तिमिङ्गिलावृतःप्रलय इवातिसमुद्धतोऽर्णवः ।व्रजति रथवरोऽति भास्वरोह्यशनिनिपातपयोदनिस्वनः
*
)अथ ज्योतिर्व्विदाभरणे रथकर्म्माह ।“लोलमैत्रलघुजिष्णुकभेषुस्यन्दनाखिलविधानमथाहुः ।सेनसद्युषुवशाम्बुतपस्थैःसाधुराशिवति साधुभिरङ्गे
”अथ रथचक्रमाह ।“उष्णवृष्णिकरकीर्णपुरर्क्षा-द्देयमृक्षवलयं वलयस्य ।सव्यभागनिचितभ्रममग्रा-दाविमध्यमनसो नवभागम्
अग्रभे भवति संकलिरन्तः-कूवरोडुनि जयोऽथ रथाङ्गे ।सन्धिभेऽर्थहृतिरन्तरसन्धौभीतिरिष्टमनसो ननु गर्भे
”अथ मुहूर्त्तगणपतौ रथकृत्यम् ।“पुष्ये पुनर्व्वसुज्येष्ठानुराधा रेवती द्वयोः ।श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे ।सार्के सौम्यदिने सौम्यविलग्ने रथकर्म्म सत्
”अथ ज्योतिःसागरे रथचक्रम् ।“रथाकारं लिखेच्चक्रं भानुभादौ विलोकयेत् ।रथाग्र त्रीणि रक्षाणि सृष्टिमार्गे प्रदापयेत्
शृङ्गे मृत्युर्ज्जयं चक्रे सन्धिदण्डे महद्भयम् ।रथाग्रे महोत्पातं मध्ये चैव सुखप्रदम्
”इत्यार्य्येषु ज्योतिर्व्विद्वल्लभरामेण कृताः शुभादिशः
*
अस्यार्थः अथानन्तरं धीराःस्यन्दनानां रथानां अखिलं सम्पूर्णं विधानंकार्य्यमाहुः कथयन्ति केषु लोलसंज्ञानिस्वाति पुनर्व्वसुः श्रवणा धनिष्ठा शतभिषाएतानि मैत्रसंज्ञानि मृगशिरा रेवती चित्राअनुराधा एतानि लघुसंज्ञानि हस्ता अश्विनीपुष्या अभिजित् एतानि जिष्णुरिन्द्रस्तद्भं ज्येष्ठाको ब्रह्मा तद्भं रोहिणी एतेषु नक्षत्रेषु पुनःकेषु सेनसद्द्युषु इनः सूर्य्यः तेन सह वर्त्तमानेषु ।सतां शुभग्रहाणां द्युषु वारेषु पुनः कस्मिन्साधुराशिवति शुभग्रहराशियुक्ते अङ्गे लग्नेसति पुनः कैः वशा स्त्री सप्तमं स्थानं अम्बुचतुर्थं तपः नवमं एतद्भवनस्थैः साधुभिःशुभग्रहैरिति अथ रथचक्रे नक्षत्रस्थापनम् ।उष्णेति उष्णवृष्णिः सूर्य्यस्तस्य करैः किरणैःकीर्णं व्याप्तं पुरं कक्षामण्डलीयस्वभागप्रदेशंयस्य तच्च तदृक्षञ्चेति तस्मात् अर्थात् सूर्य्याक्रान्तनक्षत्रात् अनसः शकटस्य वलयश्चक्रंतस्याग्रात् अग्रभागमारभ्य आविमध्यं मध्य-भागपर्य्यन्तं सुधिया ऋक्षवलयं भचक्रं देयंन्यासीकर्त्तव्यं किम्भूतं ऋक्षवलयं नवभागंनवभिर्भागैः स्थितमिति यावत् पुनः किंभूतंसव्यभागनिचितभ्रमं वामभागेन व्याप्तभ्रमण-मिति अथास्य फलम् अनसः शकटस्यअग्रभे अग्रगतवर्त्तमाने चन्द्रनक्षत्रे सङ्कलिःयुद्धं भवति कूवरोडुनि युगन्धरगते वर्त्त-माननक्षत्रे अन्तो मृतिः मरणं भवति
रथाङ्गे चक्रयुग्मे जयो भवति सन्धिभे सन्धि-गतनक्षत्रे अर्थहृतिः द्रव्यहरणं भवति ।अन्तरसन्धौ मध्यसन्धानगतनक्षत्रे भीति-भयो भवति गर्भे मध्यभागगतनक्षत्रे इष्टंशुभं भवति ननु निश्चितमिति अन्यत्सुगमम्