| YouTube Channel

रत्नाचल (ratnAcala)

 
Apte Hindi
Hindi
रत्नाचलः
पुं*
रत्नम्-अचलः -
आख्यानों मे वर्णित लंका में स्थित एक पहाड़
शब्दकल्पद्रुमः
Sanskrit
रत्नाचलः,
पुं,
(रत्ननिर्म्मितः अचलः शाक-पार्थिववत् समासः ।) दानार्थमणिमयपर्व्वतः ।यथा, --“अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् ।मुक्ताफलसहस्रेण पर्व्वतः स्यादनुत्तमः
मध्यमः पञ्चशतिकस्त्रिशतेनाधमः स्मृतः ।चतुर्थांशेन विष्कम्भाः पर्व्वताः स्युः समन्ततः
पूर्व्वेण वज्रगोमेदैर्द्दक्षिणेनेन्द्रनीलकैः ।पुष्परागयुतैः कार्य्यो विद्वद्भिर्गन्धमादनः
वैदूर्य्यविद्रुमैः पश्चात् संमिश्रो विमलाचलः ।पद्मरागसमो वर्णैरुत्तरेण तु विन्यसेत्
धान्यपर्व्वतवत् सर्व्वमत्रापि परिकल्पयेत् ।तद्वदावाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान्
पूजयेत् पुष्पपानीयैः प्रभाते चाथ पूर्व्ववत् ।पूर्व्ववद्गुरुऋत्विग्भ्यः फलमन्त्रानुदीरयेत् ।यथा देवगणाः सर्व्वे सर्व्वरत्नेष्ववस्थिताः ।त्वञ्च रत्नमयो नित्यमतः पाहि महाचल ! ।यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः ।सदा रत्नप्रदानेन तस्मान्नः पाहि पर्व्वत
अनेन विधिना यस्तु दद्याद्रत्नं महागिरिम् ।स याति वैष्णवं लोकममरेश्वरपूजितः
यावत् कल्पशतं साग्रं वसेच्चेह नराधिप ।रूपारोग्यगुणोपेतः सप्तद्बीपाधिपो भवेत्
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।तत् सर्व्वं नाशमायाति गिरिर्वज्रहतो यथा
”इति मात्स्ये ९० अध्यायः
वाचस्पत्यम्
Sanskrit
रत्नाचल
पु०
रत्ननिर्मितः अचलः दानार्थं कल्पिते रत्ननि-र्मिते पर्वते धान्यशैलशब्दे ३८८१ पृ० दृश्यम्