रत्नधेनु (ratnadhenu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English रत्नधेनु ratnadhenu cow symbolically represented by jewels
लवणधेनु lavaNadhenu cow symbolically represented with salt
लवणपर्वत lavaNaparvata mountain symbolically represented with salt
रत्नधेनु ratnadhenu cow symbolically represented by jewels
Apte Hindi
Hindiरत्नधेनुः
रत्नम्-धेनुः -
रत्नों के ढेर में दी जाने वाली प्रतीकात्मक गाय
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritरत्नधेनुः, (रत्ननिर्म्मिता धेनुः ।) महा-दानविशेषः । यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।रत्नधेनुरिति ख्यातं गोलोकफलदं नृणाम् ॥
पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् ।लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥
भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् ।धेनुं रत्नमयीं कुर्य्यात् सङ्कल्प्य विधिपूर्व्वकम् ॥
स्थापयेत् पद्मरागाणामेकाशीतिं मुखे बुधः ।पुष्परागशतं तद्वद्घोणायां परिकल्पयेत् ॥
ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ।भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्बये स्मृते ॥
काञ्चनानि तु शृङ्गाणि शिरो वज्रशतात्मकम् ।ग्रीवायां नेत्रपटलं गोमेदकसमन्वितम् ॥
इन्द्रनीलशतं पृष्ठे वैदूर्य्यशतपार्श्वकौ ।स्फाटिकैरुदरं कार्य्यं सौगन्धिकशतान् हृदि ॥
खुरा हेममयाः कार्य्याः पुच्छं मुक्तावलीमयम् ।सूर्य्यकान्तेन्दुकान्तौ च घ्राणं कर्पूरचन्दनैः ॥
कुङ्कुमानि च रोमाणि रौप्यं नाभिञ्च कारयेत् ।गारुत्मतशतं तद्वदस्थीनि परिकल्पयेत् ॥
तथान्यानि च रत्नानि स्थापयेत् सर्व्वसन्धिषु ।कुर्य्याच्छर्करया जिह्वां गोमयञ्च गुडात्मकम् ॥
गोमूत्रमाज्यञ्च तथा दधि दुग्धं स्वरूपतः ।पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ॥
कुण्डलानि च हैमानि भूषणानि च शक्तितः ।कारयेदेवमेवन्तु चतुर्थांशेन वत्सकम् ॥
तथान्यानि च सर्व्वाणि पादांश्चेक्षुमयांस्तथा ।नानाफलानि सर्व्वाणि पञ्चवर्णवितानकम् ॥
एवं विरचनं कृत्वा तद्बद्धोमाधिवासनम् ।ऋत्विग्भ्यो दक्षिणां दत्त्वा धेनुमामन्त्रयेत्ततः ।गुडधेनुवदावाह्य इदञ्चोदाहरेत्ततः ॥
त्वं सर्व्वदेवगणधाम यतः पठन्तिरुद्रेन्दुविष्णुकमलासनवामदेवाः ।तस्मात् समस्तभुवनत्रयहेतुयुक्तामां पाहि देवि भवसागरपीड्यमानम् ॥
आमन्त्र्य धेनुमभितः परिवर्त्त्य भक्त्यादद्याद्द्विजाय गुरवे जलपूर्व्वकं ताम् ।यः पुण्यमाप्य दिनमत्र कृतोपवासःपापैर्विमुक्ततनुरेति पदं मुरारेः ॥
इति सकलविधिज्ञो रत्नधेनुप्रदानंवितरति च विमानं प्राप्य देदीप्यमानम् ।कलिकलुषविमुक्तो बन्धुभिः पुत्त्रपौत्त्रैःस हि मदनसुरूपः स्थानमभ्येति शम्भोः ॥
”इति मत्स्यपुराणे महादानानुकीर्त्तने रत्नधेनु-प्रदानिको नाम २६२ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
