रत्नं (ratnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishरत्नं [रमतेऽत्र रम्-न तांतादेशः] 1 A gem, jewel, a precious stone
किं रत्नमच्छा मतिः Bv. 1. 86
न रत्नमन्विष्यति मृग्यते हि तत् Ku. 5. 45. (The ratnas are said to be either five, nine, or fourteen
see the words पंचरत्न, नवरत्न, and चतुर्दशरत्न respectively).
2 Anything valuable or precious, any dear treasure.
3 Anything best or excellent of its kind
(mostly at the end of comp.)
जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते Malli.
कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv. 1. 30
so पुत्र°, स्त्री° V. 4. 25
अपत्य° &c.
4 A magnet.
Comp.
अंकः N. of Viṣṇu's car.
अधिपतिः a superintendent of precious stones.
अतुविद्ध a. set or studded with jewels.
आकरः {1} a mine of jewels. {2} the ocean
रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिंधुः Vikr. 1. 12
रत्नाकरं नीक्ष्य R. 13. 1.
आभरणं an ornament of jewels.
आलोकः the lustre of a gem.
आवली {1} a necklace of jewels. {2} N. of a Nāṭikā attributed to Śrīharṣa.
कदलः a coral.
करः N. of Kubera.
खचित a. set or studded with gems.
गर्भः {1} Kubera. {2} the sea. (
र्भा) the earth.
दर्पणः a mirror studded with jewels.
दीपः,
प्रदीपः {1} a jewel-lamp. {2} a gem serving as a lamp
अर्चिस्तुंगानभिमुखमपि प्राप्य रत्नप्रदीपान् Me. 68.
वाभः N. of Viṣṇu.
निधिः {1} the ocean. {2} N. of Viṣṇu. {3} of Meru. {4} a wag-tail.
प्रभा the earth.
माला a jewel-necklace.
मुख्यं a diamond.
राज् m. a ruby.
राशिः {1} a heap of gems. {2} the ocean.
सानुः N. of the mountain Meru.
सू a. producing jewels
R. 1. 65.
सू, सूति f. the earth.
शब्दकल्पद्रुमः
Sanskritरत्नं, (रमयति हर्षयतीति । रम् + णिच् +“रमेस्त च ।” उणा० ३ । १४ । इति नःतकारश्चान्तादेशः ।) अश्मजातिः । मुक्तादि ।तत्पर्य्यायः । मणिः २ । इत्यमरः ॥
(यथा, कुमारे । ५ । ४५ ।“न रत्नमन्विष्यति मृग्यते हि तत् ॥
”)स्वजातिश्रेष्ठः । इति मेदिनी ॥
(यथा, मार्कण्डेये । ८५ । ४५ ।“स्त्रीरत्नमतिचार्व्वङ्गी द्योतयन्ती दिशस्त्विषा ॥
”)माणिक्यम् । वज्रम् । इति राजनिर्घण्टः ॥
* ॥
अथ रत्नोत्पत्तिकारणम् । यथा, --सूत उवाच ।“वच्मि परीक्षां रत्नानां वलो नामासुरोऽभवत् ।इन्द्राद्या निर्ज्जितास्तेन निर्जेतुं तैर्न शक्यते ॥
वरव्याजेन पशुतां याचितः स सुरैर्मखे ।बलो ददौ स्वपशुतामतिसत्त्वो मखे हतः ॥
पशुवत्स विशेत् स्तम्भे स्ववाक्याशनियन्त्रितः ।बलो लोकोपकाराय देवानां हितकाल्यया ॥
तस्य सत्त्वविशुद्धस्य सुविशुद्धेन कर्म्मणा ।कायस्यावयवाः सर्व्वे रत्नबीजत्वमाययुः ॥
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।रत्नबीजमयं ग्राहः सुमहानभवत्तदा ॥
” * ॥
अथ तस्याकरस्थानानि यथा, --“तेषान्तु पततां वेगाद्बिमानेन विहायसा ।यद्यत् पपात रत्नानां बीजं क्वचन किञ्चन ॥
महोदधौ सरिति वा पर्व्वते काननेऽपि वा ।तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥
तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ।प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥
वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताःप्रोक्ताः ।अपि चेन्द्रनीलमणिवरवैदूर्य्याश्च पुष्परागाश्च ।कर्केतनं सपुलकं रुधिराक्षसमन्वितं तथास्फटिकम् ।विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥
* ॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षाच ।मूल्यञ्च रत्नकुशलैर्व्विज्ञेयं सर्व्वशास्त्राणाम् ॥
कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि ।दोषैस्तानुपयुज्यन्ते हीयन्ते गुणसम्पदा ॥
परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ।धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥
शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः ।त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥
”इति गारुडे ६८ अध्यायः ॥
विशेषरत्नपरीक्षा तत्तच्छब्दे द्रष्टव्या ॥
* ॥
चतु-र्द्दश महारत्नानि यथा । रुशंङ्कोश्चित्ररथःतत्तनयः शशबिन्दुश्चतुर्द्दशमहारत्नश्चक्रवर्त्त्य-भवत् । चतुर्द्दश महान्ति रत्नानि यस्य सः ।रत्नानि तु स्वजातिश्रेष्ठानि धर्म्मसंहितोक्तानि ।“चक्रं रथो मणिः खड्गश्चर्म्म रत्नञ्च पञ्चमम् ।केतुर्निधिश्च सप्तैवमप्राणानि प्रचक्ष्यते ॥
भार्य्या पुरोहितश्चैव सेनानी रथकृच्च यः ।पत्त्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्त्तिताः ॥
चतुर्द्दशैतानि रत्नानि लर्व्वेषां चक्रवर्त्तिना-मिति । इति विष्णुपुराणे ४ अंशे १२ अध्यायःतट्टीका च ॥
(अथ रत्नस्य निरुक्तिः ।“धनार्थिनो जनाः सर्व्वे रमन्तेऽस्मिन्नतीव यत् ।ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥
”अथ रत्नस्य नामानि स्वरूपनिरूपणञ्च ।यथा, --“रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते ।तत्तु पांषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥
”अथ रत्नानां निरूपणम् ।“रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च ।इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिक विद्रुमश्चेति रत्नान्युक्तानि वै नव ।रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म-रागः । इन्द्रनीलः लीला ।विष्णुधर्म्मोत्तरेऽपि नवरत्ननिरूपणम् ।मुक्ताफलं हीरकञ्च वैदूर्य्यं पद्मरागकम् ।पुष्परागञ्च गोमेदं नीलं गारुत्मतन्तथा ।प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
