| YouTube Channel

रतिमन्दिरं (ratimandiraM)

 
शब्दकल्पद्रुमः
Sanskrit
रतिमन्दिरं,
क्ली,
(रतेर्मन्दिरमिव ।) योनिः ।इति जटाधरः
मैथुनगृहम् यथा, --“सञ्चारो रतिमन्दिरावधि सखीकर्णाबधिव्याहृतंचेतः कान्तसमीहितावधि पदन्यासावधिप्रेक्षितम् ।हास्यं चाधरपल्लवावधि महामानोऽपिमौनावधिःसर्व्वं सावधि नावधिः कुलभुवां प्रेम्णः परंकेवलम्
”इति रसमञ्जरी