| YouTube Channel

रण्डाश्रमी (raNDAzramI)

 
शब्दकल्पद्रुमः
Sanskrit
रण्डाश्रमी [न्]
पुं,
(रण्डो विफल आश्रमःसोऽस्त्यस्य रण्डाश्रम + इनिः ।) अष्टचत्वा-रिंशद्वत्सरोपरिभार्य्याविहीनः यथा, भवि-ष्यपूराणम् ।“चत्वारिंशद्बत्सराणां साष्टानाञ्च परे यदि ।स्त्रिया वियुज्यते कश्चित् तु रण्डाश्रमी मतः
”इत्युद्बाहतत्त्वम्