| YouTube Channel

रणिता-त्री (raNitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रण शब्दार्थः”@} 2 3 अस्य धातोर्घटादित्वं गत्यर्थकत्वे भोजादिसम्मतम्।
क्षीरस्वामिप्रभृतयोऽ- नुवदन्ति च।
पाणिनिसम्मतिरत्र नेत्यपि ज्ञेयम्।]] घटादिः।
राणकः-णिका, राणकः-णिका- 4 रणकः-णिका, रिरणिषकः-षिका, रंरणकः-णिका
5 रणिता-त्री, राणयिता-रणयिता-त्री, रिरणिषिता-त्री, रंरणिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 6 ज्ञेयानि।
7 रणः, रणरणकः 8 इमानि रूपाण्यधिकान्यत्रेति विशेषः।
9 रणयन्-न्ती।
प्रासङ्गिक्यः
01
=>
(१३६९)
02
=>
(१-भ्वादिः-४४५। ७९५। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[[४। अय गतावर्थे ‘घटादयो मितः’ (ग। सू। भ्वादिः) इति मित्संज्ञकः। मित्संज्ञक- त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ परतः उपधायाः ह्रस्वो भवति। एवं घटादित्वपक्षे ण्यन्ते सर्वत्र प्रक्रियोह्या। अन्यत्रार्थे राणयिता-त्री, इत्यादीनि रूपाणि यथायथमूह्यानि।]]
05
=>
[पृष्ठम्१०९३+ २४]
06
=>
(१५७)
07
=>
[[१। रणन्त्यस्मिन्निति बिग्रहे ‘वशिरण्योरुपसंख्यानम्’ (वा। ३-३-५८) इति अकर्तरि कारके अप्प्रत्यये रूपमेवम्। घञोऽपवादः। रणः = यज्ञः, संग्रामश्च।]]
08
=>
[[२। ‘घञर्थे कविधानम्’ (वा। ३-३-५८) इति कप्रत्यये ‘कृञादीनां के द्वे भवतः’ (वा। ६-१-१२) इति द्विर्वचने संज्ञायां कनि रूपमेवम्। पृषोदरादित्वात् हलादि- शेषाभावोऽभ्यासस्याकारश्च। रणरणकः = हृल्लेखः।]]
09
=>
[[आ। ‘अगन्मनीषः कणयन्मुकुन्दमस्मान्वियोगं रणयन् दूतः।’ धा। का। २। ९।]]