| YouTube Channel

रणं (raNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रणं, क्ली
पुं,
(रणन्ति शब्दायन्तेऽत्रेति रण् +“ग्रहेति ।” ५८ इत्यत्र “वशिरण्यो-रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।)युद्धम् इत्यमरः १०४
(यथा, मनौ ९० ।“न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः
”रमणम् यथा, ऋग्वेदे १७ १२ ।“शाचिगो शाचि पूजनायं रणाय ते सुतः
”“रणाय रमणाय ।” इति तद्भाष्ये सायणः
रमणीये, त्रि यथा, तत्रैव ११६ २१ ।“एकस्यावन्त्यो रावतं रणाय वशमश्विनासनयेसहस्रा ।”“रणाय रमणीयाय ।” इति तद्बाष्ये सायणः
)