| YouTube Channel

रञ्जकः-रजकः-ञ्जिका-जिका (raJjakaH-rajakaH-JjikA-jikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रन्ज रागे”@} 2 3 धातोरस्यापि ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ 4 इत्यत्र ग्रहणं ज्ञेयम्।
क्षीरस्वामिना “स्वरितेत्त्वार्थं विकरणार्थं इह 5 पाठः।” इत्युक्तम्।
भ्वादिष्वपि उभयपदित्वस्याविशिष्टत्वात् तत्रापि स्वरितेत्त्वस्यैवाङ्गीकाराच्च चिन्त्यमिदमिति ज्ञेयम्।
विकरणार्थं स्वरार्थमिति स्यादिति भाति।]] ‘रजते रजतीत्येव रज्यते रज्यतीत्यपि।।
रागार्थे शप्श्यनोर्द्वे द्वे…।’ 6 इति देवः।
7 रञ्जकः-ञ्जिका, रञ्जकः-रजकः-ञ्जिका-जिका, रिरङ्क्षकः-क्षिका, रारजकः-जिका
रङ्क्ता-रङ्क्त्री, रञ्जयिता-रजयिता-त्री, रिङ्क्षिता-त्री, रारजिता-त्री
इत्यादिकानि सर्वाणि रूपाणि भौवादिकरजतिवत् 8 ज्ञेयानि।
शतरि 9 रज्यन्-न्ती, इति, शानचि, रज्यमानः इति भवति।
भौवादिकधातुवत् सर्वाण्यपि विशेषरूपाण्यस्मादपि भवन्तीति बोध्यम्।
घिनुणि- 10 रागी।
प्रासङ्गिक्यः
01
=>
(१३७३)
02
=>
(४-दिवादिः-११६७। अक। अनि। उभ।)
03
=>
[[[अ]
04
=>
(ग। सू। भ्वादिषु)
05
=>
(दिवादिषु)
06
=>
(श्लो। ५७-५८)
07
=>
[पृष्ठम्११००+ २८]
08
=>
(१३७२)
09
=>
[[१। शतरि शपो दिवादित्वाच्छ्यनि, तस्यापित्सार्वधातुकत्वेन ङिद्वद्भावात्, ‘अनि- दितां हल उपधायाः क्ङिति’ (६-४-२४) इत्युपधानकारलोपः।]]
10
=>
[[आ। ‘एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्।’ भ। का। ७। ९।]]