| YouTube Channel

रजस्वला (rajasvalA)

 
Monier Williams Cologne
English
रजस्—वला
f.
a menstruating or marriageable woman,
GṛS.
Mn.
MBh.
&c.
Apte Hindi
Hindi
रजस्वला
स्त्री*
- -
रजस्वला स्त्री
रजस्वला
स्त्री*
- -
विवाह के योग्य कन्या
Shabdartha Kaustubha
Kannada
रजस्वला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಋತುಮತಿಯಾದ ಹೆಂಗಸು /ಮುಟ್ಟಾದ ಹೆಂಗಸು
निष्पत्तिः - > "वलच्" (५-२-११२)
व्युत्पत्तिः - > रजोऽस्त्यस्याः
प्रयोगाः - > "समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः"
उल्लेखाः - > माघ० १७-६१
विस्तारः - > "अथ रजस्वला स्त्रीधर्मिण्यविरात्रेयी" - अम०
L R Vaidya
English
rajasvala {% (I) a. (f. ला) %} 1. Dusty, covered with dust, R.xi.50
2. full of passion, M.vi.77.
rajasvalA {% f. %} 1. A woman during her courses, रजस्वलामुखास्वादः सुरापानसमानि Yaj.iii.229, R.xi.60
2. a marriageable girl, one above ten years of age.
Bopp
Latin
रजस्वला f. (a रजस् s. वल in fem.) femina menstruans.
Lass. 10. 7.
Wordnet
Sanskrit
Synonyms:
रजस्वला, ऋतुमती, पुष्पिता, ऋतुमती, कुसुमवती, उदक्या, मध्यमिका, पुष्पवती, पुष्पहासा, अवि, दृष्टपुष्पा, ब्रह्मघातिनी, म्लानाङ्गी
noun
सा स्त्री यस्याः रजं प्रवहति।
"गर्भस्य धारणाय अक्षमा रजस्वला जनैः पीडिता।"
Synonyms:
रजस्वला, ऋतुमती, ऋतुमति, रजवती, पुष्पवती
adjective
यस्या रजः प्रवहति।
"रजस्वला स्त्री गर्भं धारणं कर्तुं शक्यते।"
अभिधानचिन्तामणिः
Sanskrit
--source--
नग्ना तु कोटवी वृद्धा पलिक्न्यथ रजस्वला ५३४
पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः
उदक्या ऋतुमती पुष्पहीना तु निष्कला ५३५
-wordlist-
नग्ना (स्त्री), कोटवी (स्त्री), वृद्धा (स्त्री), पलिक्नी (स्त्री), रजस्वला (स्त्री), पुष्पवती (स्त्री), अधि (स्त्री), आत्रेयी (स्त्री), स्त्रीधर्मिणी (स्त्री), मलिनी (स्त्री), अवी (स्त्री), उदक्या (स्त्री), ऋतुमती (स्त्री), पुष्पहीना (स्त्री), निष्कला (स्त्री)
अभिधानरत्नमाला
Sanskrit
अवी
अवी, उदक्या, रजस्वला, आत्रेयिका, पुष्पवती
अवीरुदक्या रजस्वला स्यात्,
आत्रेयिका पुष्पवती नारी
verse 2.1.1.488
page 0056
अमरकोशः
Sanskrit
Word: रजस्वला
Root: रजस्वला
Gender: स्त्री
Number: all
Meaning(s):
menstruating or marriageable woman
Shloka(s):
2|6|20|1 विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला। (मनुष्यवर्गः)
2|6|20|2 स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥ (मनुष्यवर्गः)
2|6|21|1 ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्। (मनुष्यवर्गः)
Synonym(s):
2|6|20|1 रजस्वला (रजस्वला) (स्त्री)
2|6|20|2 स्त्रीधर्मिणी (स्त्रीधर्मिणी) (स्त्री)
2|6|20|2 अविः (अवि) (स्त्री)
2|6|20|2 आत्रेयी (आत्रेयी) (स्त्री)
2|6|20|2 मलिनी (मलिनी) (स्त्री)
2|6|20|2 पुष्पवती (पुष्पवती) (स्त्री)
2|6|21|1 ऋतुमती (ऋतुमती) (स्त्री) having courses, marriageable girl, menstruating woman, girl at the age of puberty, woman during her courses or just after them
2|6|21|1 उदक्या (उदक्या) (स्त्री)
Related word(s):
परा_अपरासंबन्धः स्त्री
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
रजस्वला,
स्त्री,
(रजोऽस्त्यस्याः “रजःकृष्या-सुतीति ।” ११२ इति वलच् टाप् ।)रजोयुक्ता तत्पर्य्यायः स्त्रीधर्म्मिणी २अवी आत्रेयी मलिनी पुष्पवती ६ऋतुमती उदक्या इत्यमरः २०
दुरिः पुष्पहासा १० इति शब्दरत्ना-वली
पुष्पिता ११ अवीरा १२ विफली १३निष्फली १४ इति जटाधरः
म्लाना १५पांशुला १६ इति राजनिर्घण्टः
*
अथरजस्वलास्पर्शप्रायश्चित्तम् “काश्यपः ।‘रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।एकरात्रं निराहारा पञ्चगव्येन शुध्यति
रजस्वला तु संस्पृष्टा राजन्या ब्राह्मणी तु या ।त्रिरात्रेण विशुद्धिः स्यात् व्याघ्रस्य वचनं यथा
रजस्वला तु संस्पृष्टा वैश्यया ब्राह्मणी या ।पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति
रजस्वला तु संस्पृष्टा शूद्रया ब्राह्मणी यदि ।बड्रात्रेण विशुध्येत्तु ब्राह्मणी कामचारतः
अकामतश्चरेदर्द्धं ब्राह्मणी सर्व्वजातिषु
’एतेन रजस्वलाया ब्राह्मण्याः सवर्णरजस्वला-स्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः ।अकामतस्तदर्द्धम् नक्तव्रतम् असवर्णरज-स्वलास्पर्शे त्रिरात्रपञ्चरात्रषड् रात्रोपवासाः ।अकामतस्तदर्द्धम् एतत् चतुर्थाहानन्तरंकर्त्तव्यम् ।‘चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजस्वला ।अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत्
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति ।तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्तु कारयेत्
’इति वचनान्तरदर्शनात् एतत् कामतः
अत्र दिनभेदोऽपि नास्ति अज्ञाने बृहस्पतिः ।‘पतितान्त्यश्वपाकैश्च संस्पृष्टा स्त्री रजस्वला ।तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत्
प्रथमेऽह्नि त्रिरात्रं तु द्वितीये द्ब्यहमाचरेत् ।अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत्
’चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् व्याघ्रः ।‘रजस्वला यदा स्पृष्टा श्वजम्बूकखरैः क्वचित् ।निराहारा भवेत्तावत् यावत् स्नानेन शुध्यति
’अत्रापि बृहस्पत्युक्तदिनभेदव्यवस्था वृद्ध-शातातपः ।‘रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि ।सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतः परम्
’पञ्चगव्यपानं व्रतरूपम् तेनोपवासः ब्रह्म-कूर्च्चमाह जावालः ।‘अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः ।पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः
’तदशक्तौ पुराणैकं दातव्यम् ।” इति प्रायश्चित्त-तत्त्वम्
*
अन्यच्च ।‘शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।दैवे कर्म्मणि पैत्रे पञ्चमेऽहनि शुध्यति
’इति शुद्धितत्त्वम्
तस्यां गमने पापं यथा, --“प्रथमे दिवसे कान्तां यो हि गच्छेद्रजस्वलाम् ।ब्रह्महत्याचतुर्थांशं लभते नात्र संशयः
पुमान्न हि कर्म्मार्हो दैवे पैत्रे कर्म्मणि ।अधमः सर्व्वेषां निन्दितश्चायशस्करः
द्वितीयदिवसे नारीं यो व्रजेच्च रजस्वलाम् ।कामतः परिपूर्णाञ्च ब्रह्महत्यां लभेद्ध्रुवम्
आजीवनं नाधिकारी पितृविप्रसुरार्च्चने
अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम्
तृतीयदिवसे जायां यो हि गच्छेद्रजस्वलाम् ।स मूढो ब्रह्महत्याञ्च लभते नात्र संशयः
पूर्व्ववत् पतितः सोऽपि चार्हः सर्व्वकर्म्मसु ।असत्पुत्त्रा चतुर्थेऽह्नि गच्छेत्तां विचक्षणः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजंन्मखण्डे ५९ अध्यायः
अपि ।“अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम् ।रेतपाः पितरस्तस्य एवमेतन्न संशयः
एकस्तु पुरुषो याति द्बितीयां काममोहितः ।तृतीयां वा चतुर्थीञ्च तदा पुरुषाधमः
ऋतुकाले तु सर्व्वासां पित्रर्थं भोग इष्यते ।ऋतुकालाभिगामी यो ब्रह्मचार्य्येव सम्मतः
गच्छति यः क्रोधात् मोहाद्वा पुरुषाधमः ।ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन्
”इति वाराहे गुह्यकर्म्मवर्णनं नामाध्यायः
(अपि ।“रजस्वलास्त्रीगमनमेतन्नरककारणम् ।रजस्वलावीरान्नञ्च पुंश्चल्यन्नञ्च भक्षणम् ।अभक्ष्यान्नञ्च विप्रर्षे यदन्नं वृषलीपतेः
”तथा ।“रजस्वलामकामाञ्च मलिनामप्रियान्तथा ।वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ।सगोत्रां गुरुपुत्त्रीञ्च तथा प्रव्रजितामपि
सन्ध्यापर्व्वस्वगम्याञ्च नोपेयात् प्रमदां नरः
रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ।दृष्ट्यायुस्तेजसां हानि-रधर्म्मश्च ततो भवेत्
”इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः
)