| YouTube Channel

रजनं (rajanaM)

 
शब्दकल्पद्रुमः
Sanskrit
रजनं,
क्ली,
(रज्यत इति रन्ज् + “रञ्जेः क्युन् ।”उणा० ७९ इति क्युन् “रजकरजन-रजःसूपसंख्यानम् ।” २४ इतिवार्त्तिकोक्तेर्नलोपश्च ।) रागः इति सिद्धान्त-कौमुद्यामुणादिवृत्तिः
(यथा, महाभारते ।८ ५२ ।“यथा वा वाससी शुक्ले महारजनरञ्जिते ।विभृयाद् युवती श्यामा तद्वदासीद्वसुन्धरा
”)ऋषिविशेषे, पुं यथा, तैत्तिरीयसंहितायाम् ।२ ।“रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्व्वन्यमयात्
”)