| YouTube Channel

रजताचलः (rajatAcalaH)

 
शब्दकल्पद्रुमः
Sanskrit
रजताचलः,
पुं,
(रजतप्रधानोऽचल इव शाक-पार्थिवादिवत्समासः ।) रौप्यपर्व्वतः तस्यपरिमाणं दानविधिश्च यथा, --“राजतो नवमस्तद्बद्दशमः शर्क्कराचलः ।वक्ष्ये विधानमेतेषां यथावदनुपूर्व्वशः
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।यत्प्रसादान्नरो याति सोमलोकं द्बिजोत्तम
दशभिः पलसाहस्रैरुत्तमो रजताचलः ।पञ्चभिर्म्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः
अशक्तौ विंशतेरूर्द्धं कारयेत् शक्तितः सदा ।विष्कम्भपर्व्वतांस्तद्बत् तुरीयांशेन कल्पयेत्
पूर्व्ववद्राजतान् कुर्य्यान्मन्दरादीन् विधानतः
”पूर्व्ववत् रत्नाचलवत् ।“कलधौतमयांस्तत्र लोकेशान् रचयेद्बुधः
ब्रह्मविष्ण्वर्कवत् कार्य्यो नितम्बोऽत्र हिरण्मयः ।राजतं स्याद्यदन्येषां समन्तादिह काञ्चनम्
शेषञ्च पूर्व्ववत् कुर्य्यात् होमजागरणादिकम् ।प्रदद्यात्तु प्रभाते तु गुरवे रौप्यपर्व्वतम्
विष्कम्भशैलान्नृत्विग्भ्यः पूज्य वस्त्रविभूषणैः ।इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्व्विमत्सरः
पितणां वल्लभं यस्मात् विष्णोर्व्वा शङ्करस्य ।रजतं पाहि तस्मान्नः शोकसंसारसागरात्
इत्थं निवेद्य वो दद्यात् रजताचलमुत्तमम् ।गवामयुतदानस्य फलं प्राप्नोति सानवः
सोमलोके सगन्धर्व्वैः किन्नराप्सरसाङ्गणैः ।पूज्यमानो वसेद्बिद्वान् यावदाहूतसंप्लवम्
”इति मात्स्ये अध्यायः
(कैलासपर्व्वतः यथा, महालिङ्गार्च्चनतन्त्रे ।“रजताचलमध्ये तु कुबेरेश्वर ईरितः
”)