| YouTube Channel

रजतं (rajataM)

 
शब्दकल्पद्रुमः
Sanskrit
रजतं,
क्ली,
(रजति प्रियं भवति रज्यत इतिवा रन्ज + “पृषिरञ्जिभ्यां कित् ।” उणा० ।३ १११ इति अतच् कित्कार्य्यञ्च ।) रूप्यम् ।इत्यमरः ९६
हस्तिदन्तः धवलःशोणितम् हारः ह्रदः शैलः (स तुशाकद्बीपस्थ एव यथा, मात्स्ये १२१ १४ ।“रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् ।तस्यापरेण रजतो महानस्तो गिरिः स्मृतः
”)स्वर्णम् इति हेमचन्द्रः १०९
शुक्ल-वर्णविशिष्ठे, त्रि इत्यमरटीकायां भरतः
पितृकार्य्ये रजतपात्रादीनां प्राशस्त्यादि यथा, “सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।रजतस्य कथा वापि दर्शनं दानमेव वा
राजतैर्भाजनैरेषामथवा रजतान्वितैः ।वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते
यथार्घ्यपिण्डभोज्यादौ पितणां राजतं मतम् ।शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् ।अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम्
”इति मात्स्ये १७ अध्यायः