रजः (rajaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishरजः [rajḥ], See रजस्.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Hindi
Hindiजुनून की विधा
Apte Hindi
Hindiरजः
- -
"धूल, रेणु, गर्द"
रजः
- -
फूल की रेणु या पराग
रजः
- -
"सूर्य किरणों में फैले हुए कण, कोई भी छोटा सा कण"
रजः
- -
"ज़ुती हुई भूमि, कृषियोग्य खेत"
रजः
- -
"अन्धकार, अन्धेरा"
रजः
- -
"मलिनता, आवेश, संवेग, नैतिक या मानसिक अन्धकार"
रजः
- -
सब प्रकार के भौतिक द्रव्यों के घटक गुणों अथवा तीन गुणों में से दूसरा
रजः
- -
"रजःस्राव, ऋतुस्राव"
Wordnet
Sanskrit रजोगुणः, रजः
प्रकृतेः त्रिषु गुणेषु एकः यः मनसि कामक्रोधलोभद्वेषादीन् विकारान् उत्पादयति।
"रजोगुणात् पुरुषे कुप्रवृत्तिः उत्पद्यते।"
स्त्रीधर्मः, स्त्रीरजः, रजः, ऋत्वम्, कन्याव्रतम्, ऋतुः, आर्तवम्, पुष्पम्
स्त्रीषु नियतकालपर्यन्तं प्रतिमासे गर्भाशयात् स्रवन् रक्तस्रावः।
"स्त्रीधर्मस्य समये स्त्रिभिः विशेषतया अवधातव्यम्।"
चूर्णः, चूर्णम्, क्षोदः, रजः
सम्येषणेन जातरजः।
निम्बस्य शुष्कपर्णात् चूर्णं कृत्वा व्रणादिषु लिप्यते। / "कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः, अवाकिरन् शान्तनवं तत्र गत्वा सहस्रशः।"
रजः, रेणुः, पांशुः, धूलिः, धूली, क्षोदः, भूरेणुः, अवकरः, अवस्करः
मृदादीनां चूर्णं यत् प्रायः पृथ्वीतले वर्तते।
"बालकाः रजसा क्रीडन्ति।"
रजः, ऋतुः, कुसुमम्, पुष्पम्, आर्त्तवम्
स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
"रजसः स्रावकाले स्त्री पीडाम् अनुभवति।"
अमरकोशः
SanskritWord: रजः
Root: रजस्
Gender: नपुं
Number: all
Meaning(s):
⇒ tin
⇒ dirt
⇒ mist
⇒ dust
⇒ sperm
⇒ menses
⇒ pollen
⇒ powder
⇒ vapour
⇒ fields
⇒ emotion
⇒ dimness
⇒ passion
⇒ darkness
⇒ safflower
⇒ atmosphere
⇒ arable land
⇒ menstruation
⇒ kind of plant
⇒ region of clouds
⇒ darkening quality
⇒ coloured or dim space
⇒ sphere of vapour or mist
⇒ cultivated or ploughed land
⇒ space between heaven and earth
⇒ light or day or world or water
Shloka(s):
2|8|98|2 ► रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥ (क्षत्रियवर्गः)
3|3|21|1 ► परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। (नानार्थवर्गः)
Synonym(s):
➠ 2|8|98|2 ⇢ रेणुः (रेणु) (स्त्री)
➠ 2|8|98|2 ⇢ रेणुः (रेणु) (पुं) ⇒ sand, dust, powder, pollen, pollen of flowers, particular measure, powder of anything, grain or atom of dust, Slender Oldenlandia [Oldenlandia Herbacea - Bot.]
➠ 2|8|98|2 ⇢ धूलिः (धूलि) (स्त्री)
➠ 2|8|98|2 ⇢ पांसुः (पांसु) (पुं) ⇒ dung, sand, dust, menses, manure, crumbling soil, kind of camphor, landed property, species of plant, pollen of a flower
➠ 2|8|98|2 ⇢ रजः (रजस्) (नपुं) ⇒ tin, dirt, mist, dust, sperm, menses, pollen, powder, vapour, fields, emotion, dimness, passion, darkness, safflower, atmosphere, arable land, menstruation, kind of plant, region of clouds, darkening quality, coloured or dim space, sphere of vapour or mist, cultivated or ploughed land, space between heaven and earth, light or day or world or water
➠ 3|3|21|1 ⇢ परागः (पराग) (पुं) ⇒ fame, dust, sandal, celebrity, independence, pollen of a flower, eclipse of the sun or moon, fragrant powder used after bathing
Related word(s):
जातिः ➡ पृथ्वी
परा_अपरासंबन्धः ➡ पिष्टस्य_रजः
शब्दकल्पद्रुमः
Sanskritरजः, (रञ्जयतीति । रन्ज् + अच् । निपातना-न्नलोपः ।) परागः । (यथा, गो० रामायणे ।३ । ७९ । २९ ।“पद्मपुष्परजोन्मिश्रो वृक्षान्तरविनिःसृतः ।निश्वास इव सीताया वायुर्वाति मनोरमः ॥
”)रेणुः । (“अर्थाः पादरजोपमाः ॥
” इतिउज्ज्वलदत्तः । ४ । २१६ ॥
) गुणभेदः ।आर्त्तवम् । इति जान्तवर्गे शब्दरत्नावली ॥
(स्कन्दस्य सेनाविशेषः । यथा, महाभारते ।९ । ४५ । ७१ ।“दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥
”विरजपुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ४० ।“त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥
”वशिष्ठपुत्त्रः ऋषिभेदः । यथा, विष्णुपुराणे ।१ । १० । १३ ।“ऊर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वै सुताः ।रजो गात्रोर्द्ध्वबाहुश्च वसनश्चानघस्तथा ॥
”)
रजः [स्] (रज्यते रजतीति । रन्ज् + “भू-रञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इत्यसुन् ।)स्त्रीणां मासि मासि योनिनिःसृतरक्तम् । तत्-पर्य्यायः । पुष्पम् २ आर्त्तवम् ३ । इत्यमरः ।२ । ६ । २१ ॥
ऋतुः ४ कुसुमम् ५ रजम् ६ ।इति शब्दरत्नावली ॥
(यथा, मनौ । ५ । १०८ ।“रजसा स्त्री मनोदुष्टा सन्न्यासेन द्बिजोत्तमः ॥
”अस्य लक्षणं यथा, --“रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते ।तद्बर्षाद्बादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥
”“नारीणां रजसि चोपचीयमाने शनैः शनैःस्तनगर्भाशययोन्यभिवृद्धिर्भवति ।” इति सुश्रुतेसूत्रस्थाने १४ अध्यायः ॥
“मासि मासि रजःस्त्रीणां रसजं स्रवति त्र्यहम् ।वत्सराद्द्वादशादूर्द्धं याति पञ्चाशतः क्षयम् ॥
”इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥
)प्रकृतेर्गुणविशेषः । तत्तु रागद्वेषात्मकं दुःख-हेतुः । रजोऽदन्तः पुंलिङ्गोऽपि । यथा, --“रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु ।”इत्यमरदत्तः । इति भरतः ॥
महाभारतमते दुःखजनकगुणः । तस्य धर्म्मःकामः क्रोधः लोभः मानः दर्पश्च । इति मोक्ष-धर्म्मः ॥
“तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाःस्मृताः ॥
”अभिसंरम्भो द्बेषाभिनिवेशः । इत्याश्वमेधिक-पर्व्व ॥
अपि च ।“काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
”इति श्रीभगवद्गीतायाम् । २ अध्यायः ॥
अपि च ।“सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥
”“रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम् ॥
”“सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥
”“लोभः प्रवृत्तिरारम्भः कर्म्मणामसमः स्पृहा ।रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ! ॥
”“कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् ।रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मघ्ये तिष्ठन्ति राजसाः ।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥
”इति श्रीभगवद्गीतायाम् । १४ अध्यायः ॥
“सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।तदा त्रेता रजोवृद्धिरिति जानीहि शौनक ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।कर्म्मणाञ्चापि काम्यानां द्बापरं तद्रजस्तमः ॥
यदा सदानृतं तन्द्री निद्रा हिंसादिसाधनम् ।शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
”इति गारुडे २२७ अध्यायः ॥
परागः । इति मेदिनी । से, ३२ ॥
(यथा, भागवते । ४ । २४ । २२ ।“पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥
”)रेणुः । अस्य पर्य्यायः धूलिशब्दे द्रष्टव्यः ॥
(यथा, माघे । २ । ४६ ।“पादाहतं यदुत्थाय मूर्द्धानमधिरोहति ।स्वस्थादेवापमानेऽपि देहिनस्तद्बसं रजः ॥
”)निषिद्धानिषिद्धरजो यथा, --“आयुष्कामो न सेवेत तथा सम्मार्ज्जनीरजः ।तथाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ॥
अशुभञ्च विजानीयात् खरोष्ट्राजाव्रिकेषु च ।गवां रजो धान्यरजः पुत्त्रस्याङ्गभवं रजः ॥
एतद्रजो महाशस्तं महापातकनाशनम् ।अजारजः खररजो यत्तु सम्मार्ज्जनीरजः ॥
एतद्रजो महापापं महाकिल्विषकारणम् ॥
”इति गारुडे ११४ अध्यायः ॥
(रात्रिः । इति निघण्टुः । १ । ७ ॥
उदकम् ।यथा, ऋग्वेदे । १ । ५६ । ५ ।“वियत्तिरोधरुणमच्युतं रजोतिष्ठिपो दिवआतासु बर्हणा ।”‘रज उदकम् ।’ इति तद्भाष्ये सायणः ॥
भुवनम् । यथा, तत्रैव । १० । ८२ । ४ ।“असूर्त्ते सूर्त्ते रजसि निषत्ते ये भूतानि सम-कृण्वन्निमानि ।”“रजसि लोके ।” इति तद्भाष्ये सायणः ॥
ज्योतिः । यथा, तत्रैव । १० । ३२ । २ ।“वीन्द्र यासि दिव्यानि रोचना विपार्थिवानिरजसा पुरुष्टुत ।”“रजसा आत्मीयेन ज्योतिषा । विद्युल्लक्षणेनयद्वा रजःशब्दाच्छस आकारः पार्थिवान्लोकान् ।” इति तद्भाष्ये सायणः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
