| YouTube Channel

रङ्गं (raGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
रङ्गं, क्ली
पुं,
(रङ्गतीति रङ्ग + अच् रज्यतेअस्मिन् रन्ज् + अधिकरणे घञ् वा ।)धातुविशेषः राङ्ग इति भाषा
तत्पर्य्यायः ।त्रपुः त्रपुषम् आपूषम् वङ्गम् मधु-रम् हिमम् कुरूप्यम् पिच्चटम् पूति-गन्धम् १० अस्य गुणाः कटुत्वम् तिक्त-त्वम् हिमत्वम् कषायत्वम् लवणरसत्वम् ।मेहघ्नत्वम् कृमिपाण्डुदाहशमनत्वम् कान्ति-करत्वम् रसायनत्वञ्च तद्विशेषो यथा, --“श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम् ।सूत्रपत्रकरं कान्तं त्रपुश्रेष्ठमुदाहृतम्
क्षुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते ।उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम्
”इति राजनिर्घण्टः
तस्याशुद्धस्य दोषमाह ।“वङ्गो विधत्ते खलु शुद्धिहीन-स्तथा ह्यपक्वश्च किलासगुल्मौ ।कुष्ठानि शूलं किल वातशोथंपाण्डुं प्रमेहञ्च भगन्दरञ्च
विषोपमं रक्तविकारवृन्दंक्षयञ्च कृच्छ्राणि कफज्वरञ्च ।मेहाश्मरीविद्रुधिमुख्यरोगान्नागोऽपि कुर्य्यात् कथितान् विकारान्
”तस्य शोधनमभिधीयते ।“वङ्गनागौ प्रतप्तौ गलितौ तौ निषेचयेत् ।त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि चत्रिधा
तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधात्रिधा ततोऽर्कदुग्धे त्रिधा
*
अथ वङ्गस्य मारणविधिः ।“मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्व्या प्रचालयेत्
”चिञ्चा अमिली रजञ्चूर्णम् अग्रोदर्व्वी कर-छुली ।“ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते ।अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत्
ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत् ।तालेन दशमांशेन याममेकं ततः पुटेत् ।एवं दशपुटैः पक्वं वङ्गं भवति मारितम्
”एवं मारितस्य वङ्गस्य गुणाः ।“वङ्गं लघु सरं रूक्षं कुष्ठमेहकफकृमीन् ।निहन्ति पाण्डुं सश्वासं नेत्र्यमीषत्तु पित्तलम्
सिंहो गजौघन्तु यथा निहन्तितथैव रङ्गोऽखिलहेमवर्गम् ।देहस्य सौख्यं प्रबलेन्द्रियत्वंनरस्य पुष्टिं विदधाति नूनम्
”इति भावप्रकाशः
(यथाच ।“वङ्गं तिक्ताम्लकं रूक्षं किञ्चिद्वातप्रकोपणम् ।मेदः श्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम्
”इति वैद्यकरसेन्द्रसारसंग्रहेजारणमारणाधिकारे
)