| YouTube Channel

रघुनन्दनः (raghunandanaH)

 
Apte Hindi
Hindi
रघुनन्दनः
पुं*
रघुः-नन्दनः -
राम के विशेषण
Wordnet
Sanskrit
Synonyms:
श्रीरामः, रामचन्द्रः, श्रीरामचन्द्रः, राघवः, रघुवीरः, रघुपतिः, रघुनाथः, रघुनन्दनः, रघुवरः, राघवेन्द्रः, जानकीनाथः, जानकीवल्लभः, राघवेन्द्रः, रावणारिः, सीतापतिः, रघुवंशतिलकः, रघुवंशमणिः, रघुनायकः, जानकीरमणः
noun
रघुकुलोत्पन्नस्य राज्ञः दशरथस्य पुत्रः यः भगवतः विष्णोः अवतारः इति मन्यन्ते।
"प्रत्येकः हिन्दुधर्मीयः जनः श्रीरामं पूजयति।"
शब्दकल्पद्रुमः
Sanskrit
रघुनन्दनः,
पुं,
(रघून् रघुवंशसम्भूतान् नन्दय-तीति नन्दि + ल्युः ।) श्रीरामः इति शब्द-रत्नावली
(यथा, रायायणे ५२ १२ ।“ततो वशिष्ठो भगवान् कथान्ते रघुनन्दन ! ।विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव
”वङ्गदेशीयनवद्वीपनिवासी स्मार्त्तः पण्डित-विशेषः प्राचीनस्मृतिसंग्रहकर्त्ता ।मलमासतत्त्वाद्यष्टाविंशतितत्त्वप्रणेता वन्द्य-घटीयश्रीहरिहरभट्टाचार्य्यात्मजः यथा, --“प्रणम्य सच्चिदानन्दं परमात्मानमीश्वरम् ।मुनीन्द्राणां स्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः ।मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये ।प्रायश्चित्ते विवाहे तिथौ जन्माष्टमीव्रते
दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये ।तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते
प्रतिष्ठायां परीक्षायां ज्जोतिषे वास्तुयज्ञके ।दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे
सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे ।इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः
”इति मलमासतत्त्वम्
अपरः पण्डितविशेषः वर्द्धमानप्रदेशान्त-र्गतमाडग्रामनिवासिचरः राढीयश्रेणीभुक्तःकिशोरीमोहनगोस्वामि सूनुः श्रीमन्नित्यानन्द-वंशीयगोस्वामी भागवतसिद्धान्तव्रजरमापरि-णयछन्दोमञ्जरीटीकाव्याख्यानकौमुदीरामरसा-यणप्रभृतयो बहवो ग्रन्थास्तत्प्रणीताः सन्ति
)