| YouTube Channel

रघुः (raghuH)

 
Apte Hindi
Hindi
रघुः
पुं*
- "लंघति ज्ञानसीमानं प्राप्नति- लंघ् + कु, लोपः लस्य रः"
"एक प्रसिद्ध सूर्यवंशी राजा, दिलीप का पुत्र और अज का पिता"
रघुः
पुं*
- -
"सूर्यवंश का एक प्रतापी राजा, दिलीप का पुत्र और अज का पिता"
Wordnet
Sanskrit
Synonyms:
रघुः
noun
इक्ष्वाकुवंशीयः राजा यः रामस्य पूर्वजः आसीत्।
"रघुः महाप्रतापवान् आसीत् अतः तस्य नाम्ना वंशः ख्यातः अभवत्।"
Tamil
Tamil
ரகு4: : சூரிய வம்சத்தின் ஒரு அரசன்.
शब्दकल्पद्रुमः
Sanskrit
रघुः,
पुं,
(लङ्घति ज्ञानसीमां प्राप्नोतीति लङ्घि+ “लङ्घिबंह्योर्नलोपश्च ।” उणा० ३० ।इति कुः नलोपश्च “बालमूललघ्वसुराल-मङ्गुलीनां वा लो रत्वमापद्यते इति वक्त्यवम् ।”८ १८ इति काशिकोक्त्या लस्य रत्वम् ।इत्युज्ज्वलदत्तः ।) सूर्य्यवंशीयदिलीपराजपुत्त्रः ।स तु अयोध्याधिपतिः श्रीरामचन्द्रस्य प्रपिता-महः यथा, रघुः १८ ।“स जातकर्म्मण्यखिले तपस्विनातपोवनादेत्य पुरोधसा कृते ।दिलीपसूनुर्म्मणिराकरोद्भवःप्रयुक्तसंस्कार इवाधिकं बभौ
”तन्नामव्युत्पत्तिर्यथा, --“श्रुतस्य यायादयमन्तमर्भक-स्तथा परेषां युधि चेति पार्थिवः ।अवेक्ष्य धातोर्गमनार्थमर्थ-वि-च्चकार नाम्ना रघुमात्मसम्भवम्
”इति रघुवंशे महाकाव्ये २१
(अस्य पिता दिलीपः माता सुदक्षिणा अयंहि अश्वमेधयज्ञदीक्षितस्य पितुर्यज्ञीयाश्वरक्षणेनियुक्तस्तदश्वहारिणं देवराजं जितवान् अथबहुकालं राज्यसुखमनुभूय विश्वजिन्नामाध्वरेसर्व्वं वित्तं ब्राह्मणसात् कृतवानपि गुरुदक्षिणा-र्थिना वरतन्तुशिष्येण कौत्सेनाभ्यर्थितः कुबेरंविजित्य धनान्यादाय तस्मै प्रदत्तवान् अथस्वपुत्त्रमजं यौवराज्येऽभिषिच्य विगतविषयाभि-लाषो योगसमाधिना भगवत्-सायुज्यमाप्तवान् ।तथा रघुवंशे सर्गे ।“अथ वीक्ष्य रघुः प्रतिष्ठितंप्रकृतिष्वात्मजमात्मवत्तथा ।विषयेषु विनाशधर्म्मसुत्रिदिवस्थेष्वपि निःस्पृहोऽभवत्
”“अथ काश्चिदजव्यपेक्षयागमयित्वा समदर्शनः समाः ।तमसः परमापदव्ययंपुरुषं योगसभाधिना रघुः
*
भीमादिवदेकदेशग्रहणे रघुवंशकाव्यम् यथा, “रघुरपि काव्यं तदपि पाठ्यम्तस्य टीका सापि पाठ्या
”एवं “रघोः काव्यं पदे पदे
एतावुद्भटौ
अपि ।“रञ्जयतीति राजा प्रभुः तेन ‘राजाप्रकृतिरञ्जनात् ।’ इति रघुः ।” इति उणादि-वृत्तौ उज्ज्वलदत्तः १५६
*
रघु-वंशीयमात्रम् तत्र बहुवचनान्तः यथा, रघुवंशे ।“रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्
”लङ्घति द्रुतं गच्छतीति शीघ्रगामिनि, त्रि ।यथा, ऋग्वेदे ३० १४ ।“अत्यो वाजी रघुरज्यमानः
”“रघुः शीघ्रगामी ।” इति तद्भाष्ये सायणः
”)