| YouTube Channel

रगे (rage)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रग्
मूलधातुः:
रगे
धात्वर्थः:
शङ्कायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रगति
धातुप्रदीपः
Sanskrit
रगेँ रगे शङ्कायाम्
- रगति ।अरगीत् रगयति ।। 789 ।।
क्षीरतरङ्गिणी
Sanskrit
रगेँ रगे शङ्कायाम्
- रगति अरगीत् रगडस्तालः 765
धातुवृत्तिः
Sanskrit
रगेँ रगे (अर्थः) शङ्कायाम्
लगे सङ्गे ( रगति लगतीत्यादि ) कखिवत् (लग्नः) "क्षुब्धस्वान्त'' इति अनिट्त्वं निष्ठायां निपात्यते अन्यत्र (लगितम्) रङ्गतिलङ्गती गत्यर्थेषु गतौ 774
कृदन्तरूपमाला
Sanskrit
1 {@“रगे शङ्कायाम्”@} 2 घटादिः।
रागकः-गिका, रागकः-गिका, रिरगिषकः-षिका, रारगकः-गिका
रगिता-त्री, रगयिता-त्री, रिरगिषिता-त्री, रारगिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककखतिवत् 3 बोध्यानि।
अस्य धातोः घटादित्वात् ‘मितां ह्रस्वः’ 4 इति णौ परतः उपधाया ह्रस्वः।
अतः ण्यन्ते रूपाणि सर्वाणि कखतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१३६३)
02
=>
(१-भ्वादिः-७८५। अक। सेट्। पर।)
03
=>
(१४१)
04
=>
(६-४-९२)
05
=>
(१४२)