| YouTube Channel

रक्तोत्पलं (raktotpalaM)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तोत्पलं,
क्ली,
(रक्तं रक्तवर्णमुत्पलम् ।) रक्त-पद्मम् तत्पर्य्यायः रक्तसरोरुहम् कोक-नदम् इत्यमरः १० ४२
(यथा, बृहत्संहितायाम् २९ ।“विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः
”तथास्य गुणाः ।“धवलं कमलं शीतं मधुरं कफपित्तजित् ।तस्मादल्पगुणं किञ्चिदन्यत् रक्तोत्पलादिकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)