| YouTube Channel

रक्तैरण्ड (raktairaNDa)

 
Monier Williams Cologne
English
रक्तैरण्ड
m.
the red Ricinus or castor-oil plant,
L.
शब्दकल्पद्रुमः
Sanskrit
रक्तैरण्डः,
पुं,
(रक्तवर्णः एरण्डः ।) वृक्षविशेषः ।लाल भेरण्डा इति भाषा
तत्पर्य्यायः व्याघ्रः २हस्तिकर्णः रुवुः उरुवूकः नाग-वर्णः चञ्चुः उत्तानपत्रकः करपर्णः ९पाचनः १० स्निग्धः ११ व्याघ्रतलः १२ रक्तकः१३ चित्रवीर्य्यः १४ ह्रस्वैरण्डः १५ अस्यगुणाः श्वयथुपवनश्रान्तिरक्तार्त्तिपाण्डुभ्रान्ति-श्वासज्वरारोचकनाशित्वम् लघुत्वञ्च इतिराजनिर्घण्टः
तत्पर्य्यायगुणाः ।“शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्व्वहस्तकः ।पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः
रक्तोऽपरोरुवूकः स्यादूरुवूको रुवुस्तथा ।व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् ।शूलशोथकटीवस्तिशिरःपीडोदरज्वरान्
ब्रध्नश्वासकफानाहकासकुष्ठाममारुतान्
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ।मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपणम्
वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम् ।कफवातकृमीन् हन्ति वृद्धिं सप्तविधामपि
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ।यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् ।तद्वन्मज्जा विड्भेदी वातश्लेष्मोदयापहः
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
रक्तैरण्ड
पु०
कर्म० (लालभेरण्डा) वृक्षभेदे राजनि०