| YouTube Channel

रक्तार्शः (raktArzaH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तार्शः, [स्]
क्ली,
(रक्तजनितमर्शः ।) अर्शो-रोगविशेषः तस्य लक्षणमाह ।“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः ।वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः
तेऽत्यर्थं दुषटमुष्णञ्च गाढविड्भिः प्रपीडिताः ।स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ।हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः
विट्श्यावं कठिनं रूक्षमधो वायुर्न वर्त्तते ।तनु चारुणवर्णञ्च फेणिलञ्चासृगर्शसाम्
कट्यूरुगुदशूलञ्च दौर्ब्बल्यं यदि वाधिकम् ।तत्रानुबन्धो वातस्य हेतुर्यदि रूक्षणम्
शिथिलं श्वेतपीतञ्च विट्स्निग्धं गुरु शीतलम् ।यद्यर्शसां घनञ्चासृक् तत्तु सत्पाण्डु पिच्छिलम्
गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणम् ।श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः
गुदे कीला अर्शंसि पित्ताकृतिसमन्विताःपित्तार्शोलक्षणयुक्ताः आकारेण वटप्ररो-हादिसदृशाः दुःखैः रोगैः त्वक्पारुष्याम्बु-शीतप्रार्थनादिभिः कलुषेन्द्रियः व्याकुलसर्व्वे-न्द्रियः रक्तजस्यापि वातोल्वणस्य लक्षण-माह तत्र रक्तार्शसि अनुबन्धः उल्वणत्वम् ।रूक्षणं रूक्षयतीति रूक्षणं रूक्षं द्रव्यम् ।पित्तोल्वणस्य लक्षणं रक्तोल्वणा गुदे कीलापित्ताकृतिसमन्विता इत्यादिनैवोक्तम् रक्त-पित्तयोः समानलिङ्गत्वात्
*
कफोल्वणस्यलक्षणमाह सपिच्छं पिच्छिलार्द्रस्तिमित-मार्द्रञ्चर्म्मावगुण्ठितमिव तस्य चिकित्सा ।रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ।दुष्टाश्रेणिगृहीते स्युः शूलानाहासृगामयाः
चन्दनकिराततिक्तकधन्वयवासाः सनागराःकथिताः ।रक्तार्शसां प्रशमना दार्व्वीत्वगुशीरनिम्बा वा
चन्दनमत्र रक्तचन्दनम् इति चन्दनादिक्वाथः
नवनीततिलाभ्यासात्केशरनवनीतशर्कराभ्यासात् ।दधिसरमथिताभ्यासात्गुदजाः शाम्यन्ति रक्तवहाः
दध्नस्तूपरि यो भागो घनः स्नेहयुतः सरः ।मथितं सररहितम् निर्ज्जलं वस्त्रपूतं दधि ।सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन् ।सिताकेशरसंयुक्तं रक्तार्शःसु सुखी भवेत्
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम् ।ओदनमद्यादम्लैर्मधुरैरीषत्सुगन्धैश्च
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ।सिद्धं छागीपयो दद्याद्गुदजे शोणितात्मके
समङ्गा लज्जालुः मोचाह्वो मोचरसः ।तिरीटो लोध्रः चन्दनमत्र रक्तचन्दनम् सम-ङ्गादिदुग्धम् ।भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः ।बन्धनात् सुदृडं सूत्रं छिनत्त्यर्शो भगन्दरम्
क्षारसूत्रम्
नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि ।क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदिताम्
चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना ।वेगावरोधन्त्रीपृष्ठयानान्युत्कटकासनम् ।यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत्
”इति भावप्रकाशः
(यथा चास्य लक्षणानि ।“रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिका-फलसदृशानि पित्तलक्षणानि यदावगाढ-पुरीषप्रपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्प-मसृक् सहसा विमृजन्ति तस्यैवातिप्रवृत्तौ शोणि-तातियोगोपद्रवा भवन्ति ।” इति सुश्रुते निदान-स्थाने द्वितीयेऽध्याये
अथास्य चिकित्सा ।“रक्तार्शसामुपचारं वक्ष्यामि शृणु पुत्त्रक ! ।प्रातस्तिलान् भक्षयेच्च नवनीतविमिश्रितान्
सितानागरसंयुक्तं नवनीतं सशर्करम् ।केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम्
भक्षेत् कुष्माण्डाषलेहं नवनीतेन शर्कराम् ।एतेन रक्तगुदजान् शमयन्ति विचक्षणाः
समङ्गा शाल्मलीपुष्पं चन्दनं ककुभत्वचम् ।नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान्
कुटजमूलसकेशरमुत्पलंखदिरधातकिमूलशृतं पयः ।पिबति म्रक्षणयोगमसृग्भवंगुदजवैकृतसङ्घविनाशनम्
”इति रक्तार्शश्चिकित्इति हारीते चिकित्सितस्थाने १२ अध्यायः
)