| YouTube Channel

रक्तार्व्वुदः (raktArvvudaH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तार्व्वुदः,
पुं,
क्ली,
(रक्तानामर्व्वुदमत्र ।) रोग-विशेषः यथा, शातातपीयकर्म्मविपाके ।“जलोदरयकृत्प्लीहशूलरोगव्रणानि ।श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः
”इति मलमासतत्त्वम्
*
रक्तार्व्वुदमाह ।‘दोषप्रदुष्टा रुधिरं शिराश्चसङ्कोच्य संपीड्य ततस्त्वपाकम् ।सस्रावमुन्नह्यति मांसपिण्डंमांसाङ्कुरैरावृतमाशु वृद्धिम्
स्रवत्यजस्रं रुधिरं प्रदुष्ट-मसाध्यमेतद्रुधिरात्मकन्तु ।रक्तक्षयोपद्रवपीडितत्वात्पाण्डुर्भवेदर्व्वुदपीडितश्च
’दोषोऽत्र पित्तं रुधिरं शिराश्च सङ्कोच्य संपीड्यसंहतीकृत्य मांसासृजोः सर्व्वेष्वर्व्वुदेषु दूष्यत्वंरक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्व्वुदेविशेषतो मांसदुष्टिर्बोद्धव्या ततो मांसपिण्ड-मुन्नह्यति उद्गतं करोति अपाकं ईषत्पाकंयथा स्यादेवमिति क्रियाविशेषणम् ईषत्-पाकश्चैकदेशपाकेन रक्तक्षयोपद्रवपीडित-त्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः तैःपीडितत्वात् अर्व्वुदपीडितः
*
अथार्व्वुदस्यचिकित्सा ।‘ग्रन्थ्यर्व्वुदानां यतो विशेषःप्रदेशहेत्वाकृतिदोषदूष्यैः ।अतश्चिकित्सेद्भिषगर्व्वुदानिविधानविद्ग्रन्थिचिकित्सितेन
हरिद्रालोध्रपत्तङ्गगृहधूममनःशिलाः ।मधुप्रगाढो लेपोऽयं मेदोऽर्व्वुदहरः परः
मूलकस्य कृतः क्षारो हरिद्रायास्तथैव ।शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्व्वुदापहः
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण ।अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्व्वुदंगच्छेत्
शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसा यवम् ।तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्व्वुदशान्तये
’रक्षोघ्नं सर्षपम् सुरसा तुलसी यवं इन्द्रयवम् ।अश्वरिपुं करवीरम् ।” इति भावप्रकाशः