| YouTube Channel

रक्तातिसारः (raktAtisAraH)

 
Wordnet
Sanskrit
Synonyms:
रक्तातिसारः
noun
रक्तयुक्तः अतिसारः।
"रक्तातिसारः घातकः अस्ति।"
Synonyms:
रक्तातिसारः
noun
सः अतिसारः यस्मिन् मलेन सह रक्तं स्रवति।
"उपेक्षणेन रक्तातिसारः घातकः भवितुम् अर्हति।"
शब्दकल्पद्रुमः
Sanskrit
रक्तातिसारः,
पुं,
(रक्तं अत्यन्तं सरत्यस्मात् सृ+ घञ् ।) रोगविशेषः “तस्य संप्राप्तिमाह ।‘पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके ।तद्दोषाज्जायते शीध्रं रक्तातीसार उल्वणः
’तस्य चिकित्सा ।‘वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् ।त्वग्युगलं पलमानं विपचेदष्टाङ्गसम्मिते तोये
अष्टमभागं शेषं क्वाथं मधुना पिबेत् पुरुषः ।रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम्
इति कुटजदाडिमक्वाथः
*
‘गोदुग्धनवनीतन्तु मधुना सितया सह ।लीढं रक्तातिसारे तु ग्राहकं परमं महत्
’इति नवनीतावलेहः
*
‘पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना ।रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत्
’चन्दनमत्र श्वेतम् इति चन्दनकल्कः
इतिभावप्रकाशः
(तथा ।“यस्तु रक्तशुद्धविरेचने शोषदाहमतिरिच्यते ।रक्तातिसार इति विज्ञेयो वैद्यैर्महामतिभिः
धन्वनागरमुस्ता बालकं बालविल्वकम् ।वलानागवला चेति क्वाथो रक्तातिसारिणाम्
दाडिमञ्च कपित्थञ्च पथ्याजम्ब्वाम्रपल्लवान् ।पिष्ट्वा देया मस्तुयुक्ता रक्तातिसारवारणाः
गुडेन पक्वं दातव्यं विल्वं रक्तातिसारिणे ।मनुजे मधुयुक्ता वा दध्ना रक्तातिसारहाः
वत्सकातिविषनागराभयापेषितञ्च मधुमस्तुसंयुतम् ।लेह एव मधुना मानुषेरक्तवाहमति वारयत्यपि
कुटजत्वक् पाठा विश्वं विल्वञ्च धातकी ।मधुना सहितं चूर्णं देयं रक्तातिसारहम्
इति रक्तातिसारः ।” इति हारीते चिकित्-सितस्थाने तृतीयेऽध्याये
)