| YouTube Channel

रक्तसारः (raktasAraH)

 
Wordnet
Sanskrit
Synonyms:
अम्लवेतसः, रक्तसारः, राजाम्लः, वीरवेतसः, वेतसाम्लः, वैतसः, शुक्ता, वेधकः, वृद्धराजः, शुक्तिका, आम्लवेतसः, शुक्तिका, शङ्खद्राविन्, वेधिन्
noun
वल्लरीविशेषः।
"अम्लवेतसः पश्चिमेषु पर्वतेषु वर्धते।"
Synonyms:
खदिरः, गायत्री, बालतनयः, दन्तधावनः, तिक्तसारः, कण्टकीद्रुमः, बालपत्रः, खद्यपत्री, क्षितिक्षमः, सुशल्यः, वक्रकण्टः, यज्ञाङ्गः, जिह्वाशल्यः, कण्टी, सारद्रुमः, कुष्ठारिः, बहुसारः, मेध्यः, बालपुत्रः, रक्तसारः, कर्कटी, जिह्वशल्यः, कुष्ठहृत्, बालपत्रकम्, यूपद्रुमः, क्षमा
noun
वर्वूरजातीयः वृक्षः।
"खदिरात् अर्कः निष्कासयन्ति।"
शब्दकल्पद्रुमः
Sanskrit
रक्तसारः,
पुं,
(रक्तः सारो यस्य ।) अम्लवेतसः ।रक्तखदिरः इति राजनिर्घण्टः
(अस्यपर्य्यायो यथा, --“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः ।कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
रक्ते सारो यस्येति शोणितसारयुक्ते, त्रि ।यथा, बृहत्संहितायाम् ६८ ९७ ।“ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर-चरणैः ।रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः
”)