| YouTube Channel

रक्तशालिः (raktazAliH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तशालिः,
पुं,
(रक्तवर्णः शालिः ।) रक्तवर्ण-धान्यविशेषः (यथा, सुश्रुते सूत्रस्थाने २०अध्याये “रक्तशालिषष्टिकगङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकेत्यादि
”) तत्पर्य्यायः ।ताम्रशालिः शोणशालिः लोहितः ।अस्य गुणाः मधुरत्वम् लघुत्वम् स्निग्ध-त्वम् बलावहत्वम् रुचिकारित्वम् दीप-नत्वम् पथ्यत्वम् पित्तदाहानिलास्रनाशि-त्वञ्च इति राजनिर्घण्टः
(तथा ।“रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् ।चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृट् ज्वरापहः ।विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)