| YouTube Channel

रक्तमेहः (raktamehaH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तमेहः,
पुं,
(मेहनं मेहः रक्तस्य मेहः ।)प्रमेहरोगविशेषः तस्य लक्षणं यथा, --“विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः
”मूत्रं मूत्रयेदिति योजनीयम् अस्यौषधम् ।यथा, --“चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः ।हरिद्रातिविषादार्व्वीपिप्पलीमूत्रचित्रकम्
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्लली ।सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम्
एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् ।द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत्
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः ।विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा
चन्द्रप्रभेति विख्याता सर्व्वरोगप्रणाशिनी ।निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा
चतस्रश्चाश्मरीस्तद्वत् मूत्राधातांस्त्रयोदश ।अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम्
कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् ।वातपित्तकफव्याधीन् बल्या वृष्या रसायनी
समाराध्य शियं तस्मात् प्रयत्नात् गुटिकामिमाम् ।प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता
”इति भावप्रकाशः
(तथास्य लक्षणम् यथा, --“विस्रं लवणमुष्णञ्च रक्तं मेहति यो नरः ।पित्तस्य परिकोपेन तं विद्याद्रक्तमेहिनम्
”इति चरके निदानस्थाने चतुर्थेऽध्याये
)