| YouTube Channel

रक्तबीजः (raktabIjaH)

 
Apte Hindi
Hindi
रक्तबीजः
पुं*
रक्त-बीजः -
एक राक्षस जिसको दुर्गा देवी ने मारा था
रक्तबीजः
पुं*
रक्त-बीजः -
अनार का वृक्ष
Wordnet
Sanskrit
Synonyms:
रक्तबीजः
noun
एकः असुरः यः शुम्भनिशुम्भयोः सेनापतिः आसीत्।
"दुर्गामाता रक्तबीजं जघान।"
Synonyms:
दाडिमः, कल्कफलः, कुचफलः, पर्वरुह्, पिण्डपुष्यः, पिण्डीरः, फलखण्डवः, फलषाडवः, मणिबीजः, मधुबीजः, मुखवल्लभः, रक्तपुष्पः, रक्तबीजः, वल्कफलः, शुकवल्लभः, शुकादनः, सत्फलः, सुनीलः, सुफलः, हिण्डीरः
noun
वृक्षविशेषः।
"माली उद्याने दाडिमं रोपयति।"
Synonyms:
रक्तबीजः
noun
एकः चिकित्सकः
"रक्तबीजस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
रक्तबीजः,
पुं,
(रक्तवर्णं बीजमस्य ।) दाडिमः ।इति राजनिर्घण्टः
(अरिष्टकफलः रीटाइति ख्यातः तत्पर्य्यायो यथा, --“अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः ।रक्तबीजः पीतफेनः फेनिलो गर्भपातनः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
रक्तं शोणितं बीजं कारणमस्य ।) असुर-विशेषः शुम्भनिशुम्भसेनापतिः देव्याहतश्च यथा, --“पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् ।योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः
युयुधे गदापाणिरिन्द्रशक्त्या महासुरः ।ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत्
कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् ।समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।तावन्तः पुरुषा जातास्तद्बीर्य्यबलविक्रमाः
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह-सत्वरा ।उवाच कालीं चामुण्डे ! विस्तरं वदनं कुरु
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता
भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् ।एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति
भक्ष्यमाणास्त्वया चोग्रा चोत्पत्स्यन्ति चापरे ।इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम्
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।तस्याहतस्य देहात्तु बहु सुस्राव शोणितम्
यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति ।मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ।तांश्चखादाथ चामुण्डा पपौ तस्य शोणितम्
देवी शूलेन वज्रेण वाणैरसिभिरृष्टिभिः ।जघान रक्तबीजं तं चामुण्डापीतशोणितम्
पपात महीपृष्ठे शस्त्रसंघसमाहतः ।नीरक्तश्च महीपाल ! रक्तबीजो महासुरः
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ! ।तेषां मातृगणो जातो ननर्त्तासृङ्मदोद्धतः
”इति मार्कण्डेये देवीमाहात्म्यम्
(महिषासुरपिता दानवो रम्भ एव जन्मान्तरेरक्तबीजो जातः यथा, देवीभागवते ।२ ४४ -- ४९ ।“मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।चितायां रोपयामासुस्तस्य देहस्य शुद्धये
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम्
वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम्
महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः ।रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्त्रवत्सलः
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः
एवं महिषो जातो रक्तबीजश्च वीर्य्यवान् ।अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम !
”)