| YouTube Channel

रक्तपुष्पः (raktapuSpaH)

 
Wordnet
Sanskrit
Synonyms:
रक्तपुष्पः, करवीरः
noun
वृक्षविशेषः।
"सीमा रक्तपुष्पस्य मालां निर्माति।"
Synonyms:
बन्धूकः, बन्धुजीवकः, रक्तकः, बन्धूजीवकः, बन्धुकः, बन्धुः, बन्धुलः, बन्धुजीवः, बन्धूलिः, बन्धुरः, रक्तः, माध्याह्निकः, ओष्ठपुष्पः, अर्कवल्लभः, मध्यन्दिनः, रक्तपुष्पः, रागपुष्पः, हरिप्रियः
noun
क्षुपकविशेषः।
"बन्धूकस्य शुक्लवर्णीयं सुगन्धितं पुष्पं भवति।"
Synonyms:
पुन्नागः, पुरुषः, तुङ्गः, केशरः, देववल्लभः, कुम्भीकः, रक्तकेशरः, पुन्नामा, पाटलद्रुमः, रक्तपुष्पः, रक्तरेणुः, अरुणः
noun
वृक्षविशेषः।
"पुन्नागस्य प्रशाखाशीर्षेषु रक्तपुष्पगुच्छाः भवन्ति।"
Synonyms:
दाडिमः, कल्कफलः, कुचफलः, पर्वरुह्, पिण्डपुष्यः, पिण्डीरः, फलखण्डवः, फलषाडवः, मणिबीजः, मधुबीजः, मुखवल्लभः, रक्तपुष्पः, रक्तबीजः, वल्कफलः, शुकवल्लभः, शुकादनः, सत्फलः, सुनीलः, सुफलः, हिण्डीरः
noun
वृक्षविशेषः।
"माली उद्याने दाडिमं रोपयति।"
Synonyms:
काञ्चनारः, कोविदारः, चमरिकः, कुद्दालः, युगपत्रकम्, कणकारकः, कान्तपुष्पः, करकः, कान्तारः, यमलच्छदः, काञ्चनालः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदालः, कुण्डली, रक्तपुष्पः, चम्पः, युगपत्रः, कनकान्तकः, कनकारकः, कर्बुदारः, गण्डारिः, गिरिजः, चमरिकः, ताम्रपुष्पकः, महापुष्पः, युग्मपर्णः, युग्मपत्रः, वरलब्धः, विदलः, शोणपुष्पकः, सत्काञ्चनारः, सिंहास्यः, हयवाहनसङ्करः, हयवाहनशङ्करः, सुवर्णारः, स्वल्पकेसरी, आस्फोतः, कषायः
noun
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
"उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।"
शब्दकल्पद्रुमः
Sanskrit
रक्तपुष्पः,
पुं,
(रक्तं पुष्पमस्य ।) करवीरः इतिजटाधरः
(अस्य पर्य्यायो यथा, --“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः ।द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)रौहितवृक्षः इति शब्दमाला
रक्तकाञ्चन-वृक्षः दाडिमवृक्षः वकवृक्षः इति रत्न-माला
बन्धूकवृक्षः पुन्नागवृक्षः इतिराजनिर्घण्टः
(रक्तवर्णपुष्पविशिष्टे, त्रि ।)यथा, बृहत्संहितायाम् १५ १४ ।“इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिल-मुद्गाः ।कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च
”)