| YouTube Channel

रक्तपित्तं (raktapittaM)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तपित्तं,
क्ली,
(रक्तदूषकं पित्तमिति मध्यपदलोपीकर्म्मधारयः “रक्तञ्च पित्तञ्च रक्तपित्त-मिति द्वन्द्ब इति सुश्रुतः रक्तञ्च तत् पित्तञ्चेतिरक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इतिचरकः ।”) रोगविशेषः तस्य निदानं यथा, धन्वन्तरिरुवाच ।“अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः ।कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत्
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् ।पित्तरक्तस्य विकृतेः संसर्गाद्दूषणादपि
गन्धवर्णानुवृत्तेषु रक्ते व्यपदिश्यते ।प्रभवत्यसृजस्तस्मात् प्लीहतो यकृतश्च तत्
शिरोगुरुत्वमरुचिः शीतेच्छा मधुकोत्कफः ।छर्द्दितृट्छर्द्दिवैभत्स्यं काशः श्वासो भ्रमः क्लमः
लोहितोऽलोहितो मत्स्यामगन्ध्यास्यञ्च विज्वरः ।रक्तहारिद्रहरितवर्णता नयनादिषु
नीललोहितपीतानां वर्णानामविचेतनम् ।स्वप्ने तदर्थधर्म्मित्वं भवत्यस्मिन् भविष्यति
ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः ।कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते
ऊर्द्ध्वं साध्यं कफाद्यस्मात् तद्बिरेचनसाधितम् ।बह्वौषधञ्च पित्तस्य विरेको हि वरौषधम्
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् ।कषायाः स्वादवो यस्य विशुद्धे श्लेष्मलोहिताः
कटुतिक्तकषाया वा ये निसर्गात् कफावहाः ।अधो याप्यञ्च नामुष्मात् तत् प्रवर्द्धनसाधनम्
अल्पौषधञ्च पित्तस्य वमनं ननु चौषधम् ।अनुबन्धि लोपस्य शान्तपित्तनरस्य तत्
कषायाश्च हितास्तस्य मधुरा एव केवलम् ।कफमारुतसंस्पृष्टमसाध्यमुपनायनम्
असह्यप्रतिलोमत्वादसाध्यादौषधस्य ।नहि संशोधनं किञ्चिदस्य प्रतिलोमनम्
शोधनं प्रतिलोमञ्च रक्तपित्ते विनिर्ज्जितम् ।एवमेवोपशमनं सर्व्वशोधनमिष्यते
संसृष्टेष्वाह दोषेषु सर्व्वथा छर्द्दनं हितम् ।तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते ।उपद्रवाश्च विकृतं फलतस्तेषु चाधिकम्
”इति गारुडे १५३ अध्यायः
*
तस्यौषधं यथा, --“त्रिवृता त्रिफला श्यामा पिप्पली शर्क्करा मधु ।मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः
वाशायां विद्यमानायामाशायां जीवितस्य ।रक्तपित्ती क्षयी कासी किमर्थमव्रसीदति
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः ।क्षौद्राढ्यः कासनश्वासरक्तपित्तनिवर्हणः
”इति गारुडे १७४ अध्यायः
*
अपि “तत्र रक्तपित्तस्य निदानपूर्व्विकांसंप्राप्तिमाह ।‘घर्म्मव्यायामशोकाध्वव्यवायैरतिसेवितैः ।तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव ।पित्तं विदग्धं स्वगुणैर्व्विदहत्याशु शोणितम्
’तीक्ष्णं मरिचादि उष्णोऽग्नितापादिः क्षारोयवक्षारादिः विदग्धं दूषितम् स्वगुणैःस्वकारणैर्गुणैस्तीक्ष्णादिभिः गुणैरिति बहु-त्वेन तीक्ष्णाम्ललवणकटूष्णघर्म्मादयो गृह्यन्ते ।विदहति दूषयति
*
रक्तपित्तस्य सामान्य-लक्षणमाह ।‘ततः प्रवर्त्तते रक्तमूर्द्ध्वं वाधो द्बिधापि वा ।’रक्तमित्युपलक्षणम् तत्संसर्गि पित्तञ्च अत-एव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्बन्द्व इतिसुश्रुतः
रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं राग-प्राप्तं पित्तमिति कर्म्मधारय इति चरकः
मार्गानाह ।‘ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः ।कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते
’कुपितमतिकुपितम्
*
पूर्व्वरूपमाह ।‘सदनं शीतकामित्वं कण्ठधूमायनं वमिः ।लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति
’विशिष्टं रूपमाह ।‘सान्द्रं सपाण्डु सस्नेहं पिच्छिलञ्च कफान्वितम् ।श्यावारुणं सफेणञ्च तनुरूक्षञ्च वातिकम्
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् ।मेचकागारधूमाभमञ्जनाभञ्च पैत्तिकम् ।संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्
’सपाण्डु ईषत्पाण्डु पिच्छिलं मयूरपिच्छच्छवि-युक्तम् कृष्णं कज्जलाभम् मेचकं चिक्कण-कृष्णवर्णम् अञ्जनं श्रोतोऽञ्जनं तदाभम्
*
संसर्गाविशेषेण मार्गभेदमाह ।‘ऊर्द्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् ।द्बिमार्गं कफवाताभ्यां उभाभ्यां तत्प्रवर्त्तते
*
उपद्रवानाह ।‘दौर्ब्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छाभुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्य-तुल्या पीडा ।तृष्णा कोष्ठस्य भेदः शिरसि तपनं पूति-निष्ठीवनञ्चद्बेषो भुक्तेऽविपाको विकृतिरपि भवेद्रक्तपि-त्तोपसर्गाः
’उपसर्गा उपद्रवाः विकृतिर्मांसप्रक्षालनाभ-त्वादिः
*
साध्यत्वादिकमाह ।‘एकदोषानुगं साध्यं द्बिदोषं याप्यमुच्यते ।यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्
ऊर्द्धं साध्यमधो याप्यमसाध्यं युर्गपद्गतम् ।व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत्
’साध्यमाह ।‘एकमार्गं बलवतो नातिवेगं चोत्थितम् ।रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्
’सुखे काले हिमशिशिरयोः
*
असाध्यमाह ।‘मांसप्रक्षालनाभं क्वथितमिव यत् कर्दमाम्भो-निभं बामेदः पूयास्रकल्पं यकृदिव यदि वा पङ्कजं वाकफाभम् ।यत् कृष्णं यच्च नीलं भृशमपि कुणपं यत्रचोक्ता विकारा-स्तद्धर्ज्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यंविभाति
’उक्ता विकारा दौर्ब्बल्यादयः सुरपतिधनुषातुल्यं नानावर्णम् ।‘येन चोपहतो रक्तं रक्तपित्तन मानवः ।पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम्
’येन रक्तपित्तेन उपहतो मनुष्यः दृश्यं घटपटा-दिकं वियच्च रक्तं पश्यति नश्यति वियच्चापिअदृश्यमपीत्यर्थः
*
अरिष्टमाह ।‘लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः ।लोहितोद्गारदर्शी म्रियते रक्तपित्तकः
’लोहितोद्गारदर्शी व्याधिमहिम्नोद्गारमपिलोहितं पश्यति इत्यर्थः
*
अथ रक्तपित्तस्यचिकित्सा ।‘पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनोऽन्नतः ।हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत्
शालिषष्टिकनीवारकोरदूषप्रसाधिकाःश्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्
’प्रियङ्गुः कङ्गुः ।‘मसूरमुद्गचणकाः समकुष्ठाढकीफलाः ।प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ।दाडिमामलकं विद्बानम्लार्थे चापि दापयेत् ।पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः
शाकार्थे शाकसात्म्यानां तण्डुलीयादयो हिताः ।पारावतान् कपोतांश्च लावान्रक्ताक्षवर्त्तकान्
शशान् कपिञ्जलानेणान् हरिणान् कालपुच्छ-कान् ।रक्तपित्तहरान् विद्याद्रसांस्तेषां प्रयोजयेत्
ईषदम्लाननम्लांश्च घृतभृष्टान् ससैन्धवान् ।कफानुग्रे यूषशाके दद्याद्बातानुगे रसम्
पथ्यं सतिलयूषेण ससितालाजशक्तुभिः ।धान्याकधात्रीवासानां द्राक्षापर्पटयोर्हिमः ।रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत्
’धान्याकादेर्हिमः
*
‘ह्रीवेरमुत्पलं ध्यान्यं चन्दनं यष्टिकामृता ।उषीरञ्च वृषश्चैषां क्वाथं समधुशर्करम्
पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति ।रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा
*
पुराणं पीनमानीय कुष्माण्डस्य फलं दृढम् ।तद्बीजाधारबीजत्वक्शिराशून्यं समाचरेत्
ततस्तस्य तुलां नीत्वा पचेज्जलतुलाह्वये ।तस्मिन्नीरेऽर्द्धशिष्टे तु यत्नतः शीतलीकृते
तानि कुष्माण्डखण्डानि पीडयेद्दृढवाससा ।यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत्
कुष्माण्डं शोषयेद्घर्म्मे ताम्रपात्रे ततः क्षिपेत् ।क्षिप्त्वा तत्र घृतप्रस्थं कुष्माण्डं तेन भर्ज्जयेत्
मधुवर्णं तदालोक्य तज्जलं तत्र निःक्षिपेत् ।सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत् पचेत्
सुपक्वे पिप्पलीशुण्ठीजीराणां द्वे पले पृथक् ।पृथक् पलार्द्धं धन्याकपत्रैलामरिचं त्वचम्
चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्रमावपेत् ।एतत् पलमितं खादेदथवाग्निबलं यथा
खण्डकुष्माण्डलेहोऽयं रक्तपित्तं विनाशयेत् ।पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम्
स्वरभेदं सहृद्रोगं कासं श्वासं क्षतं क्षयम् ।नाशयत्येव वृष्योऽयं बृंहणो बलवर्द्धनः
’इति खण्डकुष्माण्डावलेहः
*
‘शतावरीमूलकल्कं कल्कात् क्षीरं चतुर्गुणम् ।क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया
घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत् सदा ।रक्तपित्तं ह्मम्लपित्तं क्षयं श्वासञ्च नाशयेत्
’शतावरीपाकः इति रक्तपित्ताधिकारः
”इति भावप्रकाशः
(तथास्य सनिदानपूर्व्वरूपलक्षणं सम्प्राप्तिश्च ।“पित्तं यथा भूतं लोहितपित्तसंज्ञां लभतेतत्तथानुव्याख्यास्यामः यदा यस्तु जन्तुर्यव-कोद्दालककोरदूषकप्रायाण्यन्नानि नित्यं भुङ्क्तेभृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाष-कुलत्थक्षारसूपोपहितं दधिमण्डोदश्वित् कट्वम्ल-काञ्जिकोपहितं वाराहमाहिषाविकमत्स्यगव्य-पिशितं पिण्याकं पिण्डालकशाकोपहितंमूलक-सर्षपलशुनकरञ्जशिग्रुकखरयूषभूस्तृणक-सुमुखसुरसकुठेरकण्डीरकालक-पर्णासक्षवक-फणिज्झकोपदंशं सुरासौवीरतुषोदकभैरेय-मेदकमधूलककुवरवदराम्लप्रायानुपानं पिष्टान्नो-त्तरभूयिष्ठमुष्णाभितप्तो चातिमात्रमतिवेलं वापयसा समश्नाति रौहिणीकलकङ्कापोतं वासर्षपतैलक्षारसिद्धं कुलत्थमाषपिण्याकजाम्बव-लकुचपक्वैः शौक्तिकैर्वा सह क्षीरमाममतिमात्र-मथवा पिबत्युष्णाभितप्तस्तस्यैवमाचरतः पित्तंप्रकोपमापद्यते लोहितञ्च स्वप्रमाणमतिवर्त्तते ।तस्मिन् प्रमाणातिप्रवृत्ते पित्तं प्रकुपितं शरीर-मनुसर्पद्यदैव यकृत्प्लीहप्रभवानां लोहित-वहानां श्रोतसां लोहिताभिष्यन्दगुरूणि मुखा-न्यासाद्य प्रतिपद्यते तदैव लोहितं दूषयति ।संसर्गान्तर्लोहितप्रदूषणाल्लोहितगन्धवर्णानु-विधानाच्च पित्तं लोहितमित्याचक्षते तस्ये-मानि पूर्व्वरूपाणि तद्यथा अनन्नाभि-लाषो भुक्तस्य विदाहः शुक्ताम्लरसगन्ध उद्-जरच्छन्दषोऽभीक्ष्णागमनं छर्द्दितस्य वीभत्सतास्वरभेदो गात्राणां सदनं परिदाहश्च मुखा-द्धूमागम इव लोहलोहितमत्स्यामगन्धित्व-मपि चास्यस्य रक्तहरितहारिद्रवत्त्वमङ्गावयव-शकृन्मूत्र-स्वेदलालाशिङ्घानकास्यकर्णमलपिड-कोलिकापिडकारामसंवेदनालोहितनीलपीत-श्यावानामर्च्चिष्मताञ्च रूपाणां स्वप्नदर्शन-मभीक्ष्णमिति लोहितपित्तपूर्व्वरूपाणि उप-द्रवास्तु खलु दौर्ब्बल्यारोचकाविपाकश्वास-कासज्वरातीसारशोफशोषपाण्डुरोगस्वरभेदाः ।मार्गौ पुनरस्य द्बौ ऊर्द्ध्वञ्चाधश्च तद्बहुश्लेष्मणिशरीरे श्लेष्मसंसर्गादूर्द्ध्वं प्रपद्यमानं कर्णनासिका-नेत्रास्येभ्यः प्रच्यवते बहुवाते तु शरीरे वात-संसर्गादधः प्रपद्यमानं मूत्रपुरीषमार्गाभ्यांप्रच्यवते बहुवातश्लेष्मणि तु शरीरे श्लेष्मवात-संसर्गादद्बावपि मार्गौ प्रपद्यते तौ मार्गौप्रपद्यमानं सर्व्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्य-वते शरीरस्य तत्र यदूर्द्ध्वभागं तत्साध्यं विरे-चनोपक्रमणीयत्वात् बह्वौषधत्वाच्च यदधो-भागं तदयाप्यं वमनोपक्रमणीयत्वात् अल्पौषध-त्याच्च यदुभयभागं तदसाध्यं वसनविरेचनायोगित्वादनौषधत्वाच्च रक्तपित्तप्रकोपस्तु खलुपुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्शाग्निना प्राणिनांपरिगतशरीरप्राणानामनुज्वरमभवत् तस्या-शुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशुप्रशान्तौ यतितव्यं मात्रां देशं कालञ्चाभि-समीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुर-शिशिरतिक्तकषायैरभ्यवहार्य्य प्रदेहपरिषेका-वगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति
”संक्षेपतोऽस्योपशमनोपायो यथा, --“साध्यं लोहितपित्तं तद्यदूर्द्ध्वं प्रतिपद्यते ।विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य
वमनं नहि पित्तस्य हरणे श्रेष्ठमुच्यते ।यश्च तत्रानुगो वायुस्तच्छान्त्यै चावरं मतम्
स्याच्च योगावहन्तत्र कषायं तिक्तकानि ।तस्माद्याप्यं समाख्यातं यद्रक्तमनुलोमगम्
रक्तपित्तन्तु यन्मार्गौ द्वावपि प्रतिपद्यते ।असाध्यमपि तज्ज्ञेयं पूर्व्वोक्तादपि कारणात्
नहि संशोधनं किञ्चिदस्त्यस्य प्रतिमार्गगम् ।प्रतिमार्गञ्च हरणं रक्तपित्ते विधीयते
एवमेवोपशमनं सर्व्वशो नास्य विद्यते ।संसृष्टेषु दोषेषु सर्व्वजिच्छमनं मतम्
इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषता
एभ्यस्तु खलु हेतुभ्यः किञ्चित् साध्यं सिध्यति ।प्रेष्योपकरणाभावात् दौरात्म्याद्बैद्यदोषतः
अकर्म्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्त्तते ।तत्र साध्यत्वमेकं स्यात् साध्ययाप्यपरि-क्रमात्
रक्तपित्तस्य विज्ञानमिदं तस्योपदेक्ष्यते ।यत् कृष्णमथवा नीलं यद्बा शक्रधनुष्प्रभम्
रक्तपित्तमसाध्यन्तद्वाससो रञ्जनञ्च यत् ।भृशं पूत्यतिमात्रञ्च सर्व्वोपद्रववच्च यत्
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्
येन चोपहतो रक्तं रक्तपित्तेन मानवः ।पश्येद्दृश्यं वियच्चैव तच्चासाध्यमसंशयम्
तत्रासाध्यं परित्यज्यं याप्यं यत्नेन यापयेत् ।साध्यञ्चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्
कारणं नाम निर्व्वृत्तिं पूर्व्वरूपाण्युपद्रवान् ।मार्गो दोषानुबन्धञ्च साध्यत्वं हेतुमत्
निदाने रक्तपित्तस्य व्याजहार पुनर्व्वसुः ।वीतमोहरजोदोषलोभमानमदस्पृहः
”इति चरके निदानस्थाने द्वितीयेऽध्याये
*
अथास्य चिकित्सायां रसाः ।“सूतं गन्धं माक्षिकञ्चैव लौहंसर्व्वं घृष्टं त्रैफलेनोदकेन ।लोहे पात्रे गोमयैः पाचयित्वारात्रौ दह्यात् रक्तपित्तप्रशान्त्यै
इति सुधानिधीरसः
मृताभ्रमुण्डतीक्ष्णञ्च माक्षिकं रसतालकम् ।गन्धकञ्च भवेत्तुल्यं यष्टिद्राक्षामृताद्रवैः
दिनैकं मर्द्दयेत् खल्वे सिताक्षौद्रयुतावटी ।माषामात्रा निहन्त्याशु रक्तपित्तं सुदारुणम् ।ज्वरं दाहं तृषां वान्तिं शीषं पित्तान्तको रसः
इति रक्तपित्तान्तको रसः
शर्करातिलसंयुक्तं त्रिकत्रययुतन्त्वयः ।रक्तपित्तं निहन्त्याशु अम्लपित्तहरं परम्
इति शर्कराद्यं लौहम्
”इति वैव्यकरसेन्द्रसारसंग्रहे रक्तपित्ताधिकारे
अथास्य पथ्यापथ्यविधिः ।“अधोगते छर्दनमूर्द्ध्वनिर्गमेविरेचनं स्यादुभयत्र लङ्घनम् ।पुरातनाः षष्टिकशालिकोद्रव-प्रियङ्गुनीवारयवप्रसातिकाः
मुद्गा मसूराश्चणकास्तु वर्य्यो-मुकुष्टकाश्चिङ्गटवर्म्मिमत्स्याः ।शशः कपोतो हरिणैनलाव-शरालिपारावंतवर्त्तकाश्च
वका उरभ्राश्च सकालपुच्छाःकपिञ्जलाश्चापि कषायवर्गः ।गवामजायाश्च पयो घृतञ्चघृतं महिष्याः पनसं पियालम्
रम्भाफलं कञ्चटतण्डुलीय-पटोलवेत्राग्रमहार्द्रकाणि ।पुराणकुष्माण्डफलञ्च पक्व-फलानि तद्बीजजलानि वासा
स्वादूनि विम्बानि दाडिमानिखर्ज्जूरधात्रीमिषिनारिकेलम् ।कशेरुशृङ्गाटमरुष्कराणिकपित्थशालूकपरूषकाणि
भूनिम्बशाकं पिचुमर्द्दपत्रंतुम्बीकलिङ्गानि लाजसक्तुः ।द्राक्षा सिता माक्षिकमैक्षवश्चशीतोदकञ्चौद्भिदवारि चापि
सेकोऽवगाहः शतधौतसर्पि-रभ्यङ्गयोगः शिशिरप्रदेहः ।हिमानिलश्चन्दनमिन्दुपादाःकथा विचित्राश्च मनोऽनुकूलाः
धारागृहं भूमिगृहं सुशीतंवैदूर्य्यमुक्तामणिधारणञ्च ।रम्भोत्पलाम्भोरुहपत्रशय्याक्षौमाम्बरञ्चोपवनं सुशीतम्
प्रियङ्गुकाचन्दनरूषिताना-मालिङ्गनञ्चापि वराङ्गनानाम् ।पद्माकराणां सरितां ह्रदानांचन्द्रोदयानां हिमवद्दरीणाम्
सुशीतलानां गिरिनिर्झराणांस्रुतिः प्रशस्तानि कीर्त्तितानि ।प्रणीरनीरं हिमवालुका चमित्रं नृणां शोणितपित्तरोगे
”अथापथ्यानि ।“व्यायामाध्वनिषेवणं रविकरस्तीक्ष्णानिकर्म्माणि ।क्षोभो वेगविधारणञ्चपलता हस्त्यश्वयानानि
स्वेदास्रस्रुतिधूमपानसुरतक्रोधाः कुलत्थो गुडोवार्त्ताकं तिलमाषसर्षपदधिक्षाराणि कौपं मयः
”इति वैद्यकपथ्यापथ्यविधौ रक्तपित्ताधिकारः
)