| YouTube Channel

रक्तचित्रकः (raktacitrakaH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तचित्रकः,
पुं,
(रक्तो रक्तवर्णश्चित्रकः ।)क्षुपविशेषः राङ्गचिता इति भाषा
तत्-पर्य्यायः कालः अत्यालः कालमूलः ४अतिदीप्यः मार्ज्जारः अग्निः दाहकः ८पावकः चित्राङ्गः १० महाङ्गः ११ अस्यगुणाः प्रत्नकायकरत्वम् रुच्यत्वम् कुष्ठ-घ्नत्वम् लोहवेधकत्वम् रसनियामकत्वम् ।रसायनत्वञ्च इति राजनिर्घण्टः