| YouTube Channel

रक्तचन्दनं (raktacandanaM)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तचन्दनं,
क्ली,
(रक्तं रक्तवर्णं चन्दनम् ।) रक्तवर्णचन्दनकाष्ठम् (यथा, रामायणे ३३ ।“पद्मरागोचितां सीतां रक्तचन्दनसेविनीम् ।वर्षमुष्णञ्च शीतञ्च नेष्यत्याशु विवर्णताम्
”)तत्पर्य्यायः तिलपर्णो पत्राङ्गम् रञ्ज-नम् कुचन्दनम् इत्यमरः ।१३२
ताम्रसारम् ताम्रवृक्षः चन्द-नम् इति रत्नमाला
लोहितम् ९शोणितचन्दनम् १० रक्तसारम् ११ ताम्र-सारकम् १२ क्षुद्रचन्दनम् १३ अर्कचन्द-नम् १४ इति राजनिर्घण्टः
रक्ताङ्गम् १५प्रवालफलम् १६ इति भावप्रकाशः
पत्त-ङ्गम् १७ पत्तगम् १८ रक्तबीजम् १९ इतिशब्दरत्नावली
अस्य गुणाः अतिशीतल-त्वम् तिक्तत्वम् ईक्षणगतास्रदोषभूतपित्त-कफकासज्वरभ्रान्तिजन्तुवमथुतृषानाशित्वञ्च ।इति राजनिर्घण्टः
अपि ।“रक्तं शीतं गुरु स्वादु च्छर्द्दितृष्णास्रपित्तहृत् ।तिक्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम्
”इति भावप्रकाशः
अन्यच्च ।“रक्तपित्तहरं बल्यं चक्षुष्यं रक्तचन्दनम्
”इति राजवल्लभः