रक्तगुल्म (raktagulma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritरक्तगुल्मः, (रक्तजो गुल्मः इति मध्यपदलोपीकर्म्मधारयः ।) स्त्रीणां रक्तजगुल्मरोगः । तस्यौ-षधं यथा, --“द्विजयष्टीत्रिकटुकं चूर्णं षीतं हरेच्छिव ! ।तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ! ॥
”इति गारुडे १९६ अध्यायः ॥
(तथास्य निदानादिकं यथा, --“शोणितगुल्मस्तु खलु स्त्रिया एव भवति नपुरुषस्य गर्भकोष्ठार्त्तवागमनवैशेष्यात् । पार-तन्त्र्यादवैशारद्यात् सततमपचारानुरोधा-द्वेगानुदीर्णानुपरुन्धन्त्या आमगर्भे वाप्यचिरात्पतिते तथाप्यचिरप्रजाताया ऋतौ वा वात-प्रकोपनान्यासेवमानाया वातः प्रकोपमाप-द्यते । स प्रकुपितो योन्या मुखमनुप्रविश्यार्त्तव-मुपरुणद्धि मासि मासि तदार्त्तवमुपरुध्यमानंकुक्षि वर्द्धयति । तस्याः शूलकासातीसार-च्छर्द्यरोचकाविपाकाङ्गमर्द्दनिद्रालस्यकफप्रसेकाःसमुपजायन्ते स्तनयोश्च स्तन्यमोष्ठयोः स्तनमण्ड-लयोश्च कार्ष्ण्यं म्लानिः चक्षुषोर्मूच्छा हृल्लासोदोहदः श्वयथुः पादयोरीषच्चोद्गमो रोमराज्यायोन्याश्चाजालत्वमपिच योन्या दौर्गन्ध्यमास्राव-श्चोपजायते । केवलश्चास्या गुल्मः स्यन्दतेतामगर्भाङ्गर्भिणीमित्याहुर्मूढाः ॥
” इति चरकेनिदानस्थाने तृतीयेऽध्याये ॥
यथा च ।“न स्पन्दते नोदरमेति वृद्धिंभवन्ति लिङ्गानि च गर्भिणीनाम् ।तं गर्भकालातिगमे चिकित्म्य-मसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ॥
”इति सुश्रुते उत्तरतन्त्रे ४२ अध्यायः ॥
तथा च । रक्तगुल्मस्तु स्त्रिया एव प्रजायते ।यथा, --“ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ।सेवते वातलानिस्त्री क्रुद्धस्तस्याः समीरणः ॥
निरुणद्ध्यार्त्तवं योन्यां प्रतिमासमवस्थितम् ।कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च ॥
हृल्लासदौर्हृदस्तन्यदर्शनं क्षामतादिकम् ।क्रमेण वायुसंसर्गात् पित्तयोनितया च तत् ॥
शोणितं कुरुते तस्या वातपित्तोत्यगुल्मजान् ।रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान् ॥
गर्भाशये च सुतरां शूल दुष्टासृगाश्रये ।योन्याश्च स्रावदौर्गन्ध्यतोदस्यन्दनवेदनाः ॥
न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान् ।पिण्डीभूतः स एवस्याः कदाचित् स्पन्दतेचिरात् ॥
न चास्या वर्द्धते कुक्षिर्गुल्म एव तु वर्द्धते ।स्वदोषसंश्रयो गुल्मः सर्व्वो भवति तेन सः ॥
’पाकं चिरेण भजते नैव वा -- ॥
”इति वाभटे निदानस्थाने एकादशेऽध्याये ॥
* ॥
तथास्य चिकित्सा ।“सरक्तगुल्मे न च पाचनन्तुन हिङ्गुपानं कटिचालनञ्च ।न चैव संस्वेदनमर्द्दनञ्चन वा क्रमेन्नोत्प्लवनं हितञ्च ॥
रोध्रार्ज्जुनं खदिरमागधिका समङ्गाक्वाथोऽम्रवेतससमं घृतसंप्रयुक्तम् ।गुल्मं सरक्तमपि चाथ निहन्ति शीघ्रंहृत्क्लेदनञ्च विनिहन्ति च क्रुद्धरक्तम् ॥
क्षीरपानं प्रदातव्यं घृतसौवर्च्चलान्वितम् ।रक्तगुल्मविनाशाय यकृद्बिक्षतजेऽपि वा ॥
न हिङ्गुसंयुतं पथ्यं न चोष्णं न विदाहि च ।रक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ॥
”इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥
)अन्यत् गुल्मशब्दे द्रष्टव्यम् ॥
* ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
