| YouTube Channel

रक्तखदिरः (raktakhadiraH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तखदिरः,
पुं,
(रक्तः रक्तवर्णः खदिरः ।)रक्तवर्णखदिरवृक्षः तत्पर्य्यायः रक्तसारः २सुसारः ताम्रसारकः बहुशल्यः याज्ञिकः ६कुष्ठनोदनः यूपद्रुमः अस्रखदिरः ९अरुः १० अस्य गुणाः कटुत्वम् उष्णत्वम् ।कषायत्वम् गुरुत्वम् तिक्तत्वम् आमवाता-स्रवातव्रणभूतज्वरनाशित्वञ्च इति राज-निर्घण्टः
तत्पर्य्यायगुणाश्च ।“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः ।कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् ।तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् ।श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत्
”इति भावप्रकाशः