| YouTube Channel

रक्तकरवीरकः (raktakaravIrakaH)

 
शब्दकल्पद्रुमः
Sanskrit
रक्तकरवीरकः,
पुं,
(करवीर + स्वार्थे कन् ततोरक्तः रक्तवर्णः करवीरकः ।) लोहितवर्णकर-वीरपुष्पवृक्षः लाल् कनेल् इति हिन्दीभाषा तत्पर्य्यायः रक्तप्रसवः गणेश-कुसुमः चण्डीकुसुमः क्रूरः भूतद्रावी रवि-प्रियः अस्य गुणाः कुटुत्वम् तीक्ष्णत्वम् ।विशोधनत्वम् त्वद्गोषव्रणकण्डूतिकुष्ठविषहर-त्वञ्च इति राजनिर्घण्टः
तत्पर्य्यायगुणाः ।“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः ।द्बितीयो रक्तपुष्पश्च चण्डलो लगुडस्तथा
करवीरद्बयं तिक्तं कषायं कटुकञ्च तत् ।व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् ।वीर्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्
”इति भावप्रकाशः