| YouTube Channel

रक्तं (raktaM)

 
Hindi
Hindi
लाल एक (raktaM रक्त भी मतलब हो सकता है)
शब्दकल्पद्रुमः
Sanskrit
रक्तं,
क्ली,
(रज्यत अङ्गमनेनेति रन्ज् + क्तः ।)कुङ्कुमम् ताम्रम् (अस्य पर्य्यायो यथा, --“रक्तंवरिष्ठं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम्
”इति वैद्यकरत्नमालायाम्
)प्राचीनामलकम् इति मेदिनी ते, ४८
पद्मकम् (अस्य पर्य्यायो यथा, --“रक्तं कोकनदं पद्ममल्पमन्यदलोहितम्
”इति रत्नमाला
)सिन्दूरम् हिङ्गुलम् इति राजनिर्घण्टः
(अस्य पर्य्यायो यथा, --“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः
”इति रत्नमाला
)(रक्तचन्दनभेदः तत्पर्य्यायो यथा, --“पतङ्गं रञ्जनं रक्तं पत्राङ्गञ्च कुचन्दनम्
”इति रत्नमाला
)शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः तत्-पर्य्यायः रुधिरम् असृक् लोहितम् ४अस्रम् क्षतजम् शोणितम् इत्य-मरः ६४
पलङ्कारम् रोहितम् ९रङ्गकम् १० इति शब्दरत्नावली
कीला-लम् ११ अङ्गजम् १२ रोधिरम् १३ स्वजम् १४ ।इति जटाधरः
त्वग्जम् १५ शोणम् १६लोहम् १७ चर्म्मजम् १८ इति राज-निर्घण्टः
*
अथ रक्तस्य स्वरूपमाह ।“यदा रसो यकृद्याति तत्र रञ्जकपित्ततः ।रागं पाकञ्च संप्राप्य भवेद्रक्तसंज्ञकः
रक्तं सर्व्वशरीरस्थं जीवस्याधार उत्तमः ।स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत्
जीवस्याधार उत्तम इति यत आह ।जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः ।वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणा-दिति
वीर्य्ये रक्ते मले शरीरारम्भके वाग्भटोक्त-परिमाणमिते शुद्धे जीवो वसति तु दुष्टेप्रवृद्धे रक्तस्रावणोपदेशस्य वैयर्थ्यप्रसङ्गात् ।पित्तवद्भवेत् अम्लं भवेदित्यर्थः
*
अथरक्तस्य स्थानमाह ।यकृत् प्लीहा रक्तस्य मुखं स्थानं तयोःस्थितम् ।अन्यत्रापि स्थितवतां रक्तानां पोषकं भवेत्
”इति भावप्रकाशः
रक्तदोषनाशकौषधं यथा, --“ब्रह्मयष्टिफलं पिष्टं वारिणा तनु लेपतः ।तेन घृष्टं रक्तदोषः प्रणश्यति संशयः
”इति गारुडे १९२ अध्यायः
(“स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति
भवतश्चात्र ।रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते ।तद्बर्षाद्द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम्
”“रसाद्रक्तं ततो मांसम्
”“तत्र फेनिलमरुणं कृष्णं परुषं तनु शीघ्र-गमस्कन्दि वातेन दुष्टम् नीलं पीतंहरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षि-काणामस्कन्दि पित्तदुष्टम् गैरिकोदक-प्रतीकाशं स्निग्धं शीतलं वहलं पिच्छिलं चिर-सावि मांसपेशीप्रभं श्लेष्मदुष्टञ्च सर्व्वलक्षण-संयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि सन्नि-पातदुष्टम् पित्तवद्रक्तेनातिकृष्णञ्च द्विदोष-लिङ्गं संसृष्टम्
”“इन्द्रगोपप्रतीकाशमसंहतमविवर्णञ्च प्रकृतिस्थंजानीयात्
”“त्वग्दोषा ग्रन्थयः शोफाः रोगाः शोणित-जाश्च ये ।रक्तमोक्षणशीलानां भवन्ति कदाचन
”“देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते ।तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः
इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये
*
“शीतोष्णस्निग्धरुक्षद्यैरुपक्रान्ताश्च ये गदाः ।सम्यक्साध्या सिद्धन्ति रक्तजांस्तान् विभा-वयेत्
”अरुणाभं भवेद्बातात् फेणिलं विषदं तनु ।पित्तात्पीतासितं रक्तं सौष्ण्यात्स्त्यायति वैचिरात्
ईषत् पाण्डुकफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् ।द्विदोषलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्
”“नात्युष्णशीतं लघुदीपनीयंरक्तेऽपनीते हितमन्नपानम् ।तदा शरीरं ह्यनवस्थितासृ-गग्निर्व्विशेषेण रक्षितव्यः
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तिवेगम् ।सुखान्वितं पुष्टिबलोपपन्नंविशुद्बरक्तं पुरुषं वदन्ति
”इति चरके सूत्रस्थाने २४ अध्यायः
)