| YouTube Channel

यौष्माकं (yauSmAkaM)

 
शब्दकल्पद्रुमः
Sanskrit
यौष्माकं, त्रि, (युष्मद् + अण् “तस्मिन्नणि चयुष्माकास्माकौ ।” इति प्रकृते-र्युष्मकादेशः ।) युष्मत्सम्बन्धि युष्माकमिदंइत्यर्थे ष्णप्रत्ययेन निष्पन्नम् इति मुग्धबोध-व्याकरणम्
(यथा, कथासरित्सागरे ११२ ।२०५ ।“इत्याद्यस्मासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् ।विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः
”)