| YouTube Channel

यौवनं (yauvanaM)

 
Hindi
Hindi
युवा
शब्दकल्पद्रुमः
Sanskrit
यौवनं,
क्ली,
(युवन् + “हायनान्तयुवादिभ्योऽण् ।”५ १३० इति अण् ।) यूनो भावः ।तत्पर्य्यायः तारु ण्यम् इत्यमरः
वयः ३इति जटाधरः
तत्तु षोडशवर्षमारभ्य सप्तति-।वर्षपर्य्यन्तम यथा, --“आषोडशाद्भवेद्वालस्तरुणस्तत उच्यते ।बृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम्
”इति स्मृतिः
नवयौवनलक्षणं यथा, --“दरोद्भिन्नस्तनं किञ्चित् चलाक्षं मेदुरस्मितम् ।मनागभिस्फूरद्भावं नव्यं यौवनमुच्यते
”इत्युज्ज्वलनीलमणिः
(“गर्भेश्वरत्वम् अभिनवयौवनत्वमप्रतिरूपत्वम-मानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा ।सर्व्वाविनयानामेकैकमप्येषामायतनम् किमुतसमवायः यौवनारम्भे प्रायः शास्त्रजल-प्रक्षालननिर्म्मलापि कालुष्यमुपयाति बुद्धिः ।अनुज्झितधवलतापि सरागैव भवति यूनांदृष्टिः अपहरति वात्येव शुष्कपत्रं समु-द्भूतरजोभ्रान्तिरदूरमात्मेच्छया यौवनसमयेपुरुषं प्रकृतिः इन्द्रियहरिणहारिणी चसततमतिदुरन्तेयमुपभोगमृगतृष्णिका नव-यौवनकषायितात्मनश्च सलिलानीव तान्येवविषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्या-पतन्ति मनसः नाशयति दिङ्मोह इवो-न्मार्गप्रवर्त्तकः पुरुषमत्यासङ्गो विषयेषु ।” इतिकादम्बर्य्यां चन्द्रापीडं प्रतिशुकनाशोपदेशः
)नवयौवनकारकमौषधं यथा, --“अश्वगन्धानागबलागुडमांसनिषेविणाम् ।रूपं भवेद्यथा तद्वत् नवयौवनचारिणाम्
”इति गारुडे १८९ अध्यायः