| YouTube Channel

यौनं (yaunaM)

 
शब्दकल्पद्रुमः
Sanskrit
यौनं,
क्ली,
(योनेरिदमिति योनि + अण् ।)योनिसम्बन्धाधीनपापम् यथा बौधायनः ।“संवत्सरेण पतति पितेन सहाचरन् ।याजनाध्यापनाद्यौनात् सद्यो हि शयना-शनात्
”सुमन्तुः यश्चैतैर्यौनमौखश्रौवादीनां सम्बन्धा-नामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेवप्रायश्चित्तं विदध्यादिति इयात् कुर्य्यात् ।एतदेवेति द्वादशवार्षिकमित्यर्थः अत्र याज-नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते ।इति प्रायश्चित्तविवेकः
(उत्पत्तिकारणम् ।यथा, महाभारते १३ १०२ २५ ।“यत्राग्नियौनाश्च वसन्ति लोकाअब्योनयः पर्व्वतयोनयश्च
”उत्तरापथजातजातिविशेषे, पुं यथा, महा-भारते १२ २०७ ४३ ।“उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि ।यौनकाम्भोजगान्धराः किराता वर्व्वरैः सह
”)