| YouTube Channel

यौधिष्ठिरं (yaudhiSThiraM)

 
शब्दकल्पद्रुमः
Sanskrit
यौधिष्ठिरं, त्रि, (युधिष्ठिरस्य इदमिति युधिष्ठिर+ अण् ।) युधिष्ठिरसम्बन्धि यथा, --“सा यौधिष्ठिरी सेना गाङ्गेयशरताडिता ।प्रतिपत्पाठशीलानां विद्येव तनुतां गता
”इति महाभारतम्
(युधिष्ठिरस्यापत्ये, पुं यथा, महाभारते ।६ ५० ५९ ।“यौधिष्ठिरः सुसंक्रुद्धः सौवलं निशितैः शरैः ।व्यदारयत संग्रामे मघवा इव दानवम्
”वासुदेवस्य पत्नीविशेषे, स्त्री यथा, हरिवंशे ।१६० २० -- २१ ।“कौशिक्यां सुतसोमायां यौधिष्ठिर्य्यां युधिष्ठिरः ।कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ
एवमादीनि पुत्त्राणां सहस्राणि निबोध मे ।दशायुतं समाख्याता वासुदेवस्य ते सुताः
”)