यौतुक (yautuka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaयौतुक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮದುವೆಯ ಕಾಲದಲ್ಲಿ ಮಗಳು ಮತ್ತು ಅಳಿಯನಿಗೆ ಕೊಡುವ ಧನ /ಬಳುವಳಿ
विस्तारः - > "कन्यादाने तु यद्दत्तं यौतकं यौतुकं च तत्" - वैज०
शब्दकल्पद्रुमः
Sanskritयौतुकं, यौतकम् । विवाहकाले दम्पत्योर्लब्धंधनम् । उपचारात् अन्नप्राशनादिसंस्कारकाल-लब्धमपि । युतकं योनिसम्बन्धः तत्र भवमितिष्णे यौतकम् । युतयोर्बधूवरयोरिदमिति वाकणि यौतकम् ॥
यौतकमुकारमध्यमपि ।यौतकं यौतुकञ्च तत् । इति वाचस्पतिः ॥
यौत-कादि तु यद्देयं स दायो हरणञ्च तदित्यत्रामर-टीकायां भरतः ॥
* ॥
स्त्रिया यौतकधनस्याधि-कारक्रमो यथा, --“यत्त दुहितृमात्राधिकारार्थं गोतमवचनम् ।‘स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्च ।’यच्च नारदस्य ।‘मातुर्द्दुहितरोऽभावे दुहितॄणां तदन्वयः ॥
’यच्च कात्यायनस्यापि ।‘दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत् ॥
’यच्च याज्ञवल्क्यस्य ।‘मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥
’तानि पूर्व्वोक्तदेवलवचनविरोधेन यौतकधन-मात्रविषयाणि । अतएव मनुः । ९ । १३१ ॥
‘मातुश्च यौतकंयत् स्यात् कुमारीभाग एव सः ॥
’यौतकं परिणयनलब्धम् । यु मिश्रण इति धातो-र्युत इति पदम् । मिश्रता च स्त्रीपुंसयोरेकशरी-रता तच्च विवाहाद्भवति । अस्थिभिरस्थीनिमांसैर्म्मांसानि त्वचा त्वचमिति श्रुतेः । अतोविवाहकाललब्धं यौतकम् । ततश्च परिणयन-लब्धं स्त्रीधनं दुहितुरेव न पुत्त्राणाम् । तत्रैवक्रमार्थं गोतमवचनम् । स्त्रीधनं दुहितॄणाम-प्रत्तानामप्रतिष्ठितानाञ्च । प्रथममप्रत्तानां तद-भावे प्रत्तानां तदभावे समूढानाम् । स्त्रीधनंदुहितॄणामितिसामान्यतः प्राप्तत्वात् । अप्रत्ता-नामित्यादेस्तु क्रमार्थत्वात् । तथा, याज्ञ-बल्क्यः ।‘अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्म्यादिषु चतुष्वपि ।दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥
’तत्र ब्राह्म्यादिषु विवाहेषु यल्लब्धमध्यग्निधनंस्त्रिया तत् तस्यां मृतायां प्रथमं दुहितॄणामेवतत्रापि प्रथमं कन्यायास्तदभावे प्रत्तायास्तद-भावे परिणीतायाः सर्व्वदुहित्रभावे च पुत्त्र-स्याधिकारः अप्रजःस्त्रीधने भर्त्तुरधिकारात् ।बृहस्पतिना अप्रत्तापदेन अप्रत्ताद्यभावे समू-ढाया अप्यधिकारः सूचितः ।‘ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् ।अप्रजायामतीतायां भर्त्तुरेव तदिष्यते ॥
यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु ।अतीतायामप्रजायां मातापित्रोस्तदिष्यते ॥
’अस्याः स्याद्दत्तमिति पराचीनं पूर्व्वत्रानुषज्यते ।तेन विवाहेषु यद्धनं दत्तमिति सम्बन्धात्वैवाहिकधनमात्रप्रतीतेर्न यावद्धनविषयत्वम् ।तथा यमः ।‘आसुरादिषु यद्द्रव्यं विवाहेषु प्रदीयते ॥
’विवाहक्रियायां पूर्व्वापरीभूतायां यद्द्रव्यं प्रदी-यते इति यौतकधनमात्रगोचरत्वमेव प्रतीयते ।”इति दायभागः ॥
* ॥
“ऊढाया यौतकधने प्रथमंकुमारी तदभावे वाग्दत्ता अधिकारिणी ।एतयोरभावे ऊढयोः पुत्त्रवतीसम्भावितपुत्त्रयो-र्युगपदधिकारः । एकाभावे चापरायाः । एतयो-रभावे बन्ध्याविधवयोस्तुल्याधिकारः । एकाभावेचापरायाः । ततः पुत्त्रदौहित्रपौत्त्रप्रपौत्त्रस-पत्नीपुत्त्रपौत्त्रप्रपौत्त्राणां क्रमेणाधिकारः । ग्रन्थ-कृन्मते सपत्नीपुत्त्रानन्तरं दौहित्रस्याधिकारइति विशेषः । ततो ब्राह्म्यादिविवाहपञ्चक-समयलब्धयौतकधने भर्त्ता भ्राता माता पिताचेति क्रमः । आसुरादिविवाहत्रयसमयलब्ध-यौतकधने माता पिता भ्राता भर्त्ता चेति क्रमः ।ततो देवरः ततो देवरपुत्त्रभर्त्तृश्वशुरपुत्त्रौभगिनीपुत्त्रः ततो भर्त्तृभागिनेयः ततो भ्रातृपुत्त्रःततो जामाता ततः श्वशुरः ततो भ्रातृश्वशुरःतत आनन्तर्य्यक्रमेण सपिण्डाः ततः सकुल्याःततः समानोदकाः ।” इति तट्टीकायां श्रीकृष्ण-तर्कालङ्कारः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
