| YouTube Channel

योयुजिता-त्री (yoyujitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“युज समाधौ”@} 2 समाधिः = चित्तवृत्तिनिरोधः।
‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि।
युजेः संयमनार्थे वा णौ योजयति योजति।।’ 3 इति देवः।
योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका
योक्ता- योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभुनक्तिवत् 4 ज्ञेयानि।
5 प्रयुक्-प्रयुजौ-प्रयुजः, 6 युक्, 7 युक्, 8 योगी, 9 युक्तः, युज्यमानः, योजयमानः, 10 11 योगः-परियोगः-पलियोगः, 12 युगम्, 13 संयुगः, 14 युयुक्षमाणः, इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३४९)
02
=>
(४-दिवादिः-११७७। अक। अनि। आत्म।)
03
=>
(श्लो। ६४)
04
=>
(११६२)
05
=>
[[३। ‘सत्सूद्विषद्रुहदुहयुज--’ (३-२-६१) इत्यादिना सोपसर्गात् क्विपि रूपमेवम्। अत्र निरुपसर्गादपि क्विप्, सूत्रे ‘अपि’ शब्दस्वारस्यात्। युक्-युजौ-युजः, इत्यपि साधुः।]]
06
=>
[[B। ‘कंसानुरोध्यणनहृन्मतिमद्दृगर्च्यः…।।’ धा। का। २। ६२।]]
07
=>
[[४। स्त्रियां भावादौ सम्पदादित्वेन (वा। ३-३-१०८) क्विपि रूपम्। ‘युजमापन्ना महर्षयः’ इति धातुवृत्तावुदाहृतम्। अत्र युजम् = योगमित्यर्थः। काशिका (७-१-७१) द्रष्टव्याऽत्र।]]
08
=>
[[५। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुज--’ (३-२-१४२) इत्यादिना यथासम्भवं तच्छीलतद्धर्म- तत्साधुकारिष्वर्थेषु घिनुण्प्रत्यये, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
09
=>
[[६। धातोरस्याकर्मकत्वात् ‘क्तोऽधिकरणे ध्रौव्य--’ (३-४-७६) इति क्तप्रत्ययः।]]
10
=>
[पृष्ठम्१०८३+ २६]
11
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वम्। योगः = चित्तवृत्तिनिरोधः। ‘योगे च’ (वा। ८-२-२२) इति वचनात् ‘परि’ इत्युपसर्गस्थस्य रेफस्य पाक्षिकं लत्वम्।]]
12
=>
[[२। संज्ञायां घञि, कुत्वे, उञ्छादि (६-१-१६०) पाठाद् गुणो न। युगम् = चेत- नाचेतनानां समाधिः।]]
13
=>
[[३। संज्ञायां घञि, कुत्वे, प्रतिजनादिषु (४-४-९९) पाठात् गुणो न। संयुगः = समरः।]]
14
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३। ४१।]]
1 {@“युज संयमने”@} 2 आधृषीयः।
‘योगे इति द्रुमे।’ इति धा।
का।
व्याख्या 3।
‘युजेः संयमनार्थे वा णौ योजयति योजति।।’ 4 इति देवः।
योजकः-जिका, युयोजयिषकः-षिका, योजकः-जिका, 5 युयुक्षकः-क्षिका, योयुजकः-जिका
योजयिता-त्री, युयोजयिषिता-त्री, युयुक्षिता-त्री
योयुजिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि चौरादिकजोषयतिवत् 6 ज्ञेयानि।
7 योजयन्।
योजना मानविशेषः।
प्रासङ्गिक्यः
01
=>
(१३५०)
02
=>
(१०-चुरादिः-१८०७। सक। सेट्। उभ।)
03
=>
(३-४८)
04
=>
(श्लो। ६४)
05
=>
[[४। आधृषीयत्वेन णिज्विकल्पः। णिजभावपक्षे, ‘त्यजिं यजिं युजिरुचिसञ्जिमज्जतीन्--’ (भाष्ये ७-२-१०) इति व्याघ्रभूतिकारिकायामुपादानात् तत्र सामान्येन दैवादिक-रौधादिकयोः, णिजभावपक्षे औत्सर्गिकशब्विकरणस्यास्य ग्रहणस्य व्याख्यातृभिरुपादानादस्यानिट्त्वमिति ज्ञेयम्। तेन सन्नन्ते रूपमेवम्।]]
06
=>
(६१३)
07
=>
[[B। ‘कृष्णोऽथ बाहुयुगलैर्बहु योजयन्तम्…।’ धा। का। ३। ४८।]]
1 {@“युजिर् योगे”@} 2 ‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि।’ 3 इति देवः।
योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका
योक्ता-योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि रौधादिकभुनक्तिवत् 4 ज्ञेयानि।
5 6 युञ्जन्-ती, 7 युञ्जानः, 8 प्रयुञ्जानः-उपयुञ्जानः, 9 नियुञ्जानः- वियुञ्जानः-उद्युञ्जानः, 10 योगी, 11 युङ् 12 -युञ्जौ-युञ्जः, 13 अश्वयुक्-अश्वयुग्- 14 मौञ्जीयुक्-युजौ-युजः, 15 युग्यम्- 16 -योग्यम्, 17 प्रयोज्यः-नियोज्यः, 18 योक्त्रम्, 19 20 अनुयोगी-प्रतियोगी, 21 योगः-परियोगः-पलियोगः-प्रयोगः-वियोगः-अनुयोगः, युक्तिः- 22 वाचोयुक्तिः, 23 युगम्-संयुगम्, 24 गोयुगः, 25 इति मक्प्रत्यये, कुत्वे रूपम्।
युनक्तीति युग्मम् = मिथुनम्।]] युग्मम् इतीमानि रूपाण्यस्य विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३५१)
02
=>
(७-रुधादिः-१४४४। सक। अनि। उभ।)
03
=>
(श्लो। ६४)
04
=>
(११६२)
05
=>
[पृष्ठम्१०८४+ ३०]
06
=>
[[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति विकरणप्रत्यये श्नमि, तस्य मित्त्वेनान्त्यादचः परत्वेन प्राप्तौ, ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकारलोपे नकारस्यानुस्वारपरसवर्णयोरेवं रूपम्। एवमेव शानजन्तेऽपि प्रक्रियोह्या।]]
07
=>
[[२। शानजन्ते, ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानशन्तेऽपि तुल्यं रूपम्।]]
08
=>
[[३। ‘प्रोपाभ्यां, युजेरयज्ञपात्रेषु’ (१-३-६४) इति अकर्त्रभिप्रायेऽपि क्रियाफले आत्मनेपदम्--शानच्। ‘द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति’ इत्यादिकल्पसूत्र- प्रयोगेषु यज्ञविषयकत्वात् परस्मैपदमेव।]]
09
=>
[[४। ‘स्वराद्यन्तोपसृष्टादिति वक्तव्यम्’ (वा। १-३-६४) इति वचनात् अत्रापि शानच्। स्वरः = अच्, आदौ अन्ते यस्योपसर्गस्य तदुपसृष्टादपि युजेस्तङानौ--इति वार्तिकार्थः।]]
10
=>
[[५। ‘सम्पृच--’ (३-२-१४२) इत्यादिना घिनुणि, कुत्वे रूपमेवम्।]]
11
=>
[[६। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च’ (३-२-५९) इति क्विन्प्रत्ययः। ‘युजेरसमासे’ (७-१-७१) इति नुमि, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे संयोगान्तलोपे युङ् इति सम्पद्यते।]]
12
=>
[[आ। ‘भ्रातरं युङ् भियः संख्ये घोषेणापूरयन् दिशः।।’ भ। का। ६। ११९।]]
13
=>
[[७। ‘सत्सूद्विष--’ (३-२-६१) इत्यादिना सोपपदात् क्विपि, रूपमेवम्। ‘युजेरसमासे’ (७-१-७१) इत्यत्र ‘असमासे’ इत्युक्तत्वात् नुम्। अश्वयुक् = नक्षत्रविशेषः। अश्वेन युनक्ति इति वृत्तिः। नात्रावयवार्थेऽभिनिवेशः कार्यः, ‘रथेन तरतीति रथन्तरम् = साम’ इत्यादिष्विव व्युत्पत्तिप्रदर्शनमेतत्।]]
14
=>
[[B। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १। ६।]]
15
=>
[[८। ‘युग्यं पत्त्रे’ (३-१-१२१) इति पत्त्रे = वाहनेऽभिधेये क्यप्, कुत्वं निपात्यते। नात्र नपुंसकलिङ्गस्य निपातने विवक्षितत्वम्
\n\n तेन ‘युग्या--गौः’ इत्यादयोऽपि साधवः। अन्यत्र, ण्यति, कुत्वे योग्यम् इति सिद्ध्यति।]]
16
=>
[[C। ‘दृष्ट्वा ताममुचद् रामो युग्यायात इब श्रमम्।।’ भ। का। ६। ६३।]]
17
=>
[[९। ‘प्रयोज्यनियोज्यौ शक्यार्थे’ (७-३-६८) इति शक्यार्थे प्रपूर्वकस्य निपूर्वकस्य चास्य ण्यति कुत्वाभावो निपात्यते। अन्यत्र नियोग्यः, प्रयोग्यः इति साधुः।]]
18
=>
[[१०। ‘दाम्नीशसयुयुजं--’ (३-२-१८२) इत्यादिना करणे त्रप्रत्ययः। गुणे कुत्वे योक्त्रम् इति सिद्ध्यति।]]
19
=>
[पृष्ठम्१०८५+ २९]
20
=>
[[१। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र पाठात् भविष्यदर्थे औणादिके णिनिः, तत्रैव पाठात् कुत्वं चेति ज्ञेयम्।]]
21
=>
[[२। संज्ञायाम् घञि कुत्वे योगः इति भवति। ‘योगे च’ (वा। ८-२-२२) इति ‘परि’ इत्यत्र रेफस्य लत्वं विकल्पेनेति ज्ञेयम्।]]
22
=>
[[३। क्तिनि-युक्तिः इति सिध्यति। आक्रोशे गम्यमाने वाचः परस्मात् युक्तिशब्दे सति वाच इत्यत्र षष्ठ्याः, ‘… वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु’ (वा। ६-३-२१) इत्यलुक्। वाचोयुक्तिः = वाग्जालः, वृथा जृम्भणमिति यावत्।]]
23
=>
[[४। घञि, प्रतिजनादिषु (४-४-९९), उञ्छादिषु (६-१-१६०) पाठात् गुणो नेति ज्ञेयम्।]]
24
=>
[[५। “गां युनक्तीति गोयुगः ‘कर्मण्यण्’ (३-२-१), न्यङ्क्वादिः (७-३-५३)।” इति क्षीरस्वामी। ‘अणि गुणाभावो न्यङ्क्वादित्वादेव।’ इति क्षीरतरङ्गिणी- टीका। वस्तुतः इदं चिन्त्यम्। यतः, ‘द्वित्वे गोयुगच्’ (वा। ५-२-२९) इति गोयुगच् इत्यस्य प्रत्ययत्वेन भाष्यवार्तिकादिषु स्मरणात्।]]
25
=>
[[६। ‘युजिरुचितिजां कुश्च’ [द। उ। ७-३३]