| YouTube Channel

योनिरोग (yoniroga)

 
Monier Williams Cologne
English
योनि—रोग
m.
disease of the female organs of generation,
Suśr.
Shabdartha Kaustubha
Kannada
योनिरोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ತ್ರೀಯರ ಜನನೇಂದ್ರಿಯದಲ್ಲಿ ಉಂಟಾಗುವ ವ್ಯಾಧಿ
शब्दकल्पद्रुमः
Sanskrit
योनिरोगः,
पुं,
(योनेः रोगः ।) भगगदः
(यथा, सुश्रुते ४५ ।“शूलोदावर्त्तातिसारप्रवाहिकायोनिरोगगर्भ-स्रावरक्तपित्तश्रमक्लमहरम्
*
) अस्यनिदानादिर्योनिशब्दे द्रष्टव्यः
वाचस्पत्यम्
Sanskrit
योनिरोग
पु०
त० षोडशविधे भगरोगभेदे“उदावृत्ता तथा वन्ध्या विप्लुता परिप्लुता वातला ५योनिजो रोगो वातदोषेण पञ्चधा पञ्चधा पित्तदोषेणतत्रादौ लोहिताक्षरा प्रस्रंसिनी बामनी पुत्रघ्नी ४पित्तला तथा अत्यानन्दा कर्णिनी चरणा नन्द-पूर्विका अतिपूर्वापि सा ज्ञेया श्लेष्मला कफादिमाः ।षण्ड्यण्डिनी विकृता मूचीवक्त्रा त्रिदोषिणी ।पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः” अथ तासांलक्षणान्याह “सफेनिलमुदावृत्ता रजः कृच्छ्रेण मुञ्चति ।बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना परिप्लु-तायां भवति ग्राम्यधर्भे त्वरा भृशम् वातला कर्कशा-स्तब्धाशूलनिस्तोदपीडिता चतसृष्वपि चाद्यासु भवन्त्य-निलवेदनाः” अनिलवेदनास्तोदादयः वातलायां त्वतिवातवेदना बोद्धव्या वातलेत्यन्वयात् “सदाहं क्षरतेरक्तं यस्याः सा लोहिताक्षरा प्रस्रंसिनी संसूते चक्षोभिता दुष्प्रजायिनी” “क्षोभिता विमर्द्दिता स्रंसतेस्वस्थानाच्च्यवते दुष्प्रजायिनी दुष्टप्रजननशीला सततमुद्गिरेद्वीर्य्यं वामनी रजसा युतम् स्थितं हि पातयेद्-गर्मं पुत्रघ्नी रक्तसंस्रवात्” पुत्रशब्दोऽत्रापत्योपलक्षकः ।“अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता चतसृष्वपिचाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्” अत्यानन्दा सन्तोषंग्राम्यधर्भेण विन्दति कर्णिन्यां कर्णिका योनौ श्लेष्मा-सृग्भ्यां प्रजायते” कर्णिका मांसस्य कर्णिकाकारो-ग्रन्थिः “मैथुने चरणा पूर्ब पुरुषादतिरिच्यते अति-रिच्यते रजोमुञ्चतीत्यर्थः बहुशश्चातिचरणा तयोर्वीर्य्यंन तिष्ठति” बहुशः वारंवारमतिरिच्यते तयोः चरणा-तिचरणयोः “श्लेष्मला पिच्छला योनिः कण्डूयुक्तातिशीतला चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ।अनार्त्तवाऽस्तनी षण्डी खरस्पर्शा मैथुने” अस्तनीईषत्स्तनौ यस्याः सा अत्र लक्ष्या षण्डी महामेढ्र-गृहीताया बालाया अण्डिनी भवेत् महामेढ्रपुरुषस्तेन ग्रहीतायाः बालायाः मूक्ष्मयोनिच्छिद्रायाःअण्डिनी अण्डवल्लम्बमाना योनिर्भवति” विवृतां मूचीवक्त्राञ्चाह “विवृता महायोनिः सूचीवक्त्राति संवृता ।त्रिदोषजामाह सर्वलिङ्गसमुत्थानं सर्वदोषप्रकीपजम् ।चतऌष्वपि द्यासु सर्वलिङ्गनिदर्शनम्” अयासाध्यांयोनिमाह “पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ।पञ्च षण्डीप्रभृतयः” अथ योनिकन्दस्य निदानमाह ।“दिवास्वप्नादतिक्रोधात् व्यायामादतिमैथुनात् क्षताच्चनखदन्ताद्यै र्वाताद्याः कुपिता यथा” यथास्वनिदानंकुपिता वातादाः रूपभाह “पूयशोणितसङ्काशं लकुचा-कृतिसन्निभम् जनयन्ति यदा योनौ नाम्ना कन्दः सयोनिजः” लकुचाकृतिसन्निभं लकुचाकारं गुडकमत्रविशेष्यं बोघ्यम्” वातजादिभेदेन रूप्रमाह “रूक्षंविवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् दाहराग-ज्वरयुतं विद्यात्पित्तात्मकं तु तम् तिलपुष्पप्रतीकाशंकण्डूमन्तं कफा प्रकम् सर्वलिङ्गसमायुक्तं सन्नि-पातात्मकं वदेत्”